________________
परि. ३.सू.८] स्याद्वादरलाकरसहितः क्षेपणपर्यवसानात् । द्वितीयपक्षोऽप्ययुक्तः । प्रतिनियताग्निसम्बन्धित्वेनैव प्रथसप्रत्यक्षे धूमस्य प्रतिभासात् । यदप्ययुक्तम् । भूयो, दर्शनावगतान्वयव्यतिरेकसहकृतेन वा प्रत्यक्षेण व्याप्तिः प्रतीयत इति । तदप्ययुक्तम् । अन्वयव्यतिरेकसहकृतत्वं हि प्रत्यक्षस्य स्वविषयातिक्रमे-- मार्थान्तरे प्रवृत्तिः । स्वविषये प्रवर्त्तमानस्यान्वयव्यतिरेकाभ्यामतिशया- ५ धानं वा । प्रथमपक्षे प्रत्यक्षविरोधः । स्वार्थातिक्रमेणार्थान्तरे प्रवृत्ति. लक्षणस्य सहकृतत्वस्य क्वचिदप्यप्रतीतेः । न खलु प्रदीपसहकृतं लोचनं रसादौ प्रवर्तमानं प्रतीयते । तथा
उन्मीलत्कलिकाकलापकवलीकारक्रमव्याकुली___ क्रीडपट्पदचारुचूतलतिकाकान्ते वसन्तोत्सवे ।। १० किं पुंस्कोकिलकामिनीव कुरुते काकी वराकी क्वचित्
कण्ठान्त ठिताच्छपञ्चमकलासंराजितं कूजितम् ॥४७८॥ द्वितीयपक्षेऽपि स्वविषये . प्रवर्त्तमानस्यान्वयव्यतिरेकाभ्यामतिशयाधानमध्यक्षस्य व्याप्तिविषयत्वे सिद्धे सिद्धयेत् , तच्चासिद्धम् । सम्बद्धवर्तमानार्थविषयत्वात्तस्य । किंच, इन्द्रियविषये विद्यमानत्वात्तत्प्रभव- १५ प्रत्यक्षेण व्याप्तिः प्रतीयते स्वविषयत्वाद्वा । न तावद्विद्यमानत्वात्, रसादेरपि चाक्षुषत्वानुषङ्गात् । व्याप्तिवद्भूमादौ तस्यापि सत्त्वाविशेपात् । नापि स्वविषयत्वात्, व्याप्तेः प्रत्यक्षविषयत्वानुपपत्तेः । अनियतविषया हि व्याप्तिरिति कथं नियतविषयोन्द्रियप्रभवप्रत्यक्षतां प्रति. पद्येत । एतेनान्वयव्यतिरेकाभ्यां हीत्यादिः पूर्वपक्षग्रन्थः सकलोऽपि २० प्रतिक्षिप्तः । प्रोक्तनीत्यान्वयव्यतिरेकयोः संहकृतत्वस्य प्रत्यक्षेण व्याप्तौ गृह्यमाणायां प्रतिहतत्वात् । तन्नेन्द्रियप्रभवं प्रत्यक्षं व्याप्तिप्रतिपत्तौ समर्थम् । नापि मानसम् । मनसो बालेन्द्रियनिरपेक्षम्य बहिरर्थसाक्षा
करणे सामर्थ्याभावात् । “ अस्वतन्त्र बहिर्मनः" इत्यभिधानात् । व्याप्तिश्च वद्विधूमादिविषया बहिरर्थधर्मत्वाद्वहिरर्थो वर्त्तते । भवदभिमतस्य २५ च मनसोऽणुस्वभावत्वेनाशेषार्थे सकृत्सम्बन्धासम्भवात्कथं तत्प्रभवं प्रत्यक्षं
"Aho Shrut Gyanam"