________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ३.. योगस्य या त्वस्य सुतार्किकत्वकीर्तिः पुरस्तात्परिपुंसनीया ॥ सर्कप्रमाणत्वकदर्थनायामयं विधेयस्तद्नु प्रयासः ॥ ४७७ ॥
तथा हि, यत्तावन्निविषयत्वादिति । साधनमुक्तम् । तदसिद्धम् । व्याप्तिलक्षणस्य तद्विषयत्वसम्भवात् । यत्पुनरुक्तं सा च प्रत्यक्षस्यैवः ५ विषय इत्यादि । तत्र किमन्द्रियं मानसं वा प्रत्यक्षं व्याप्तिग्रणे प्रव•
र्तते । न तावदैन्द्रियम् । तद्धि येनार्थेन प्रतिनियतदेशकालादिनेन्द्रिय सम्बध्यते तमेवावभासयति न तु व्याप्तिम् । सा हि सकलदेशकालालिङ्गितसाध्यसाधनोपसंहारेण गृह्यते । यतो व्यापन व्याप्तिः सर्वासां व्याप्यव्यक्तीनां व्यापकव्यक्तीनां च व्याप्यरूपतया व्यापकरूपतया च कोडीकरणमुच्यते । न च तत्रेन्द्रियस्य ग्रहणसामर्थ्य सम्भवति । सकलव्याप्यव्यापकव्यक्तिभिः सार्धं तस्य सम्बन्धासम्भवात् । ननु साध्यमग्निसामान्य साधनं च धूमसामान्यं तयोश्चानवयक्योः सन्निकृष्टत्वादेकत्रापि साकल्येनेन्द्रियेण ग्रहणमस्ति विशेषप्रतिपत्तिस्तु सर्वत्र हेतोः पक्षधर्मता
बलादेवेति चेत् । तदयुक्तम् । एवं हि साधनवैफल्यापत्तिः । व्याप्तिग्रह - १५ णकाल एव सामान्यरूपस्य साध्यस्य प्रसिद्धेः । कथमन्यथा सामान्य
रूपयोः साध्यसाधनधर्मयोः साकल्येन व्याप्तिर्निर्णीता स्यात् । विशेषप्रति पत्तिस्तु हेतोः पक्षधर्मताबलादेवेत्यत्रापि पक्षधर्मता धूमविशेषस्य तत्सामान्यस्य वा । आद्यपक्षेऽमिविशेषेण धूमविशेषस्य व्याप्तेरप्रतिपत्तितो
गमकत्वायोगः । द्वितीये त्वग्निसामान्यस्यैव धूमसामान्यासिद्धिः स्यात्ते२० नैव तस्य व्याप्तेः । अथ साधनसामान्यात्साध्यसामान्यप्रतिपत्तेरेवेष्टविशेषप्रतिपत्तिः। सामान्यस्य विशेषनिष्ठत्वादिति चेत् । ननु तत्सामान्यमपि विशेषमात्रेण व्याप्तं सत्तदेव गमयेन्नेष्टविशेषम् । यच्चोक्तं प्रथमप्रत्यक्षेऽप्यग्निसम्बन्धित्वेन धूमस्य प्रतिभासनादित्यादि । तदपि न
क्षोदवर्तनीयमनुवर्तते । यतः पुरो दृश्यमानाग्निसम्बन्धित्वेन धूमः प्रथम२५ प्रत्यक्षे प्रतिभासेत । सकलामिसम्बन्धित्वेन वा । प्रथमपक्षे कथं
व्याप्तिप्रतिपत्तिः । प्रतिनियतव्यक्तौ व्याप्तेरेवासम्भवात् । तस्याः सर्वा
"Aho Shrut Gyanam"