________________
परि. ३ स. ८] स्याद्वादरत्नाकरसहितः ___ तथा हि, तर्कः प्रमाणं न भवति निर्विषयत्वात् । यत्पुनः प्रमाण तन्न निविषयं यथा प्रत्यक्षम् , निर्विषयश्च तर्कः । तस्मात्प्रमाणं न भवति । न चात्र निर्विषयत्वमसिद्धम् । तर्कस्य हि विषयः साध्यसाधनयोर्व्याप्तिः परैः प्रतिपाद्यते । सा च प्रत्यक्षस्यैव विषयः प्रथमप्रत्यक्षेऽप्यग्निसम्बन्धित्वेन धूमस्य प्रतिभासनात् । न चायं धूमवहेरन्य- ५ तोऽप्यन्यस्मादेव वा जलादेर्भवतीति सन्देहविपर्यासौ प्रत्यक्षे सम्भवतः। अग्नेरेवायमिति तत्सम्बन्धित्वेनैव धूमस्य तन्निश्चयात् । इत्थं प्रथमप्रत्यक्षेण व्याप्तौ प्रतिपन्नायामन्वयव्यतिरेको भूयसोपलभ्यमानौ प्रथमस्यैव प्रत्यक्षस्य दाढर्यमुत्पादयतः । भूयो दर्शनादर्शनावगतान्वयव्यति रेकसहकृतेन वा प्रत्यक्षेण व्याप्तिः प्रतीयते । ननु यदि प्रथमप्रत्यक्षे- १० गैव व्याप्तिः प्रतीयते तर्हि किमित्ययं धूमादिरनेन वयादिना नियत इत्येवंरूपा तदानीमेव व्याप्तिप्रतीति!त्पद्यते, इति चेत् । उच्यते । सामग्र्यभावात् । अन्वयव्यतिरेकाभ्यां हि भूयोदर्शनादर्शनावगताभ्यां व्याप्तिरुल्लिख्यते । न च प्रथमप्रत्यक्षकाले तौ स्तः । अन्वयव्यतिरेको च भूयोदर्शनादर्शनावगतौ प्रयोजकसन्देहव्युदासार्थों युक्तावेव | अनेक. १५ सहचारिदर्शने हि प्रयोजके सन्देहः । किं धूमप्रयुक्तोऽयं नियमः किं वा श्यामत्वादिप्रयुक्त इति । तत्र श्यामत्वादयो धूमापेक्षा न वाहिसापेक्षा इति धूमस्याग्निसम्बन्धित्वे धूमत्वमेव प्रयोजकं न तु श्यामत्वादयः । धूमत्वे हि सति न कदाचिदग्नित्वं व्यभिचरतीति । भूयोदृष्टान्वयव्यतिरेकस्य प्रमातुरपरोक्षाकारतयोपजायमानत्वाद्विशिष्ट. २० दण्डयादिप्रत्ययवत्प्रत्यक्षमेवेदं व्याप्तिज्ञानमिति । इत्थं न सङ्गतिमिहाङ्गति मानभावः
सन्यायमार्गनिपुणैः परिमृष्यमाणः ।। तर्के कथञ्चन तत स्वमताभिमान
मधापि मुश्चत न किं बत जैनचन्द्राः ॥ ४७६ ॥ २५
"Aho Shrut Gyanam"