________________
पोरेः ३ 'सूः स्याद्वादरत्नाकरसहितः न चासौ सर्वामिष्वगृहीतेषु ग्रहीतुं शक्यत इति, तन्न सत्यम् । यंतोऽम्यभावस्तदन्यदेशादिस्वभावो भावान्तरस्वभावत्वादभावस्य । तुच्छस्वभावस्य प्रतिक्षेप्स्यमानत्वात् । स चाखिलाग्निविविक्तो देशादिः प्रतियोगिग्रहणमन्तरेणापि प्रतीयते कथमन्यथा घटादेरपि प्रतिपत्तिः स्यात् । तत्स्वरूपस्यापि त्रैलोक्यविलक्षणतया त्रैलोक्याप्रतिपत्तावप्रति- ५ पत्तिप्रसङ्गात् । यच्च तत्सद्भाव एवेत्याद्यभिहितम् । तदपि नानवद्यम् । एवं हि विरोधव्यवस्थितौ क्रियमाणायां शीतस्पर्शस्यापि वहिना विरोधो न स्यात्, न खल्त्रस्य वहिसद्भाव एव. निवृत्तिः । अन्यथापि तन्निवृत्तेः प्रतीयमानत्वात् । तस्माद्यत्सद्भावे यस्य नियमेन निवृत्तिस्तेन तद्विरुद्धमेव । अन्यभावे च सति धूमस्य नियमेन निवर्तमानत्वाद्धमा- १० भावेनेव तेनापि तस्य विरोधः । तथा हि यस्मिन्सति यन्नियमेन निवर्त्तते तेन तद्विरुद्धम् । यथोष्णस्पर्शसद्भावे नियमेन निवर्तमानः शीतस्पर्शः । अन्यभावे सति नियमेन निवर्त्तते च धूम इति । नन्वम्यभावे धूमस्य नियमेन निवर्तमानत्वमसिद्धं गोपालघुटिकादौ वयभावेऽपि धूमसद्भावप्रतीतेरिति चेत् । तदप्यसुन्दरम् । तत्रापि तत्स- १५ द्धावसम्भवात् । धूमस्य हि भाव आत्मलाभः स चाग्नौ सत्येव संवृत्तस्तत्कथं गोपालघुटिकादावश्यभावे धूमसद्भावाशङ्कापि । तर्हि पर्वतादाविव तत्रापि धूमोऽग्निं गमयेदित्यनुपपन्नम् । पर्वतादिधूमादस्य वैलक्षण्यात् । वहिसमानसमयसत्ताको हि पर्वतादिधूमो बहलः पताकायमानस्वरूपोऽनुभूयते । न च गोपालघुटिकादिधूमस्तथा, ततो नास्यान्यनुमापकत्वम् । ३१ यदप्युक्तं व्याप्तौ सत्यामपि न धूमादग्निपैङ्गल्यमनुमीयत इत्यादि । तदपि न विचारसरणिमनुसरति । यतो व्याप्त्यनुसारेणानुमानं विधीयते । व्याप्तिश्चाग्नित्वधूमत्वद्वारेणैवावसीयते । न पैकल्यादिधर्मद्वारेणं । तेषामानन्त्याद्याभिचाराच्च । तथा हिंपैङ्गल्यं शातकुम्भे तरलतस्तडिन्मण्डले भास्वरत्वं
सत्त्वं सर्वार्थसार्थे तरुणरुचितरे भास्करे दाहकत्वम् ।।
"Aho Shrut Gyanam"