________________
प्रमाणनयतत्त्वालोकालङ्कारः परि ३ सू. तथा धूम एव वहेर्गमको न तद्गताः श्यामत्वादय इति वृथा व्याप्तिकल्पनं तद्गोचरतर्कप्रामाण्यकल्पनं च ।
तार्किकैस्तय॑माणोऽयं तर्कः कर्कशया धिया । इत्थं नोपैति मानत्वं विफलस्तदिहाग्रहः ॥ ४७० ॥ तर्कः प्रमा न भवतीति वदन्तु कामं
हे तार्किकाः स्वपरिषत्सु सदा भवन्तः ॥ जैनोदिते स्फुरति दूषणडम्बरे तु
सर्वं भविष्यति न किञ्चिदिदं तथाहि ॥ ४७१ ॥ बत्तावदुक्तं व्याप्तिश्च विचार्यमाणा नावस्थां बध्नाति । तन्नोपपन्नम् । १० स्वरूपप्रयुक्तस्याव्यभिचारस्य व्याप्तित्वप्रतिज्ञानात् ! स्वरूपं हि विवक्षि
तसाध्यसाधनयोः स्वकर्मकलापकलितमग्नित्वं घूमत्वं च । तद्धयन्यतो देशकालाकारादेावृत्त्यप्रकर्षेण सम्बन्धमात्मन्येव योजयति । ततश्च मदधीनामेव व्याप्तिं बुद्ध्यस्व बुद्धयस्वेत्यात्मसम्बन्धित्वेन व्याप्ति
व्यवस्थापर्यस्त्वप्रयुक्तामेव तां बोद्धारं बोधयति । यदप्युक्तं सम्बन्धश्चैक१५ देशत्वमेककालत्वं वेत्यादि । तदप्येतेन प्रत्युक्तम् । देशकालौ परि.
हृत्य स्वरूपमात्रेणैव धूमादेरम्यादिना सहाविनाभावस्य निर्बाधबोधविरूढत्वात् । यच्चान्यदुक्तं कस्य केनायमविनाभाव इत्यादि । तत्र यस्य येनाव्यभिचारस्तस्य तेनाविनाभावः। सामान्यविशेषवतश्च धूमादेः
सामान्यविशेषवताम्यादिना सहाव्यभिचार इति तस्य तेनैवाविनाभावोऽ२० तश्वोक्तदोषानवकाशः । गम्यं हि व्यापकं गमकं च व्याप्यम् । न
च केवलौ सामान्यविशेषौ गम्यगमकरूपतयाऽनुभूयेते । जात्यन्तरस्यैव सामान्यविशेषोभयाऽत्मनस्तद्रूपतयावभासनात् । यदपिः किमेकस्य कस्यचिदग्नेरभावे धूमानुपपत्तिर्गद्यते सर्वस्य वेत्याधुपन्यस्तम् । तत्र
सर्वस्येति ब्रूमः । यतो धूमानुपपत्तिः सर्वाक्षेपेण प्रतीयते यावान्क२५ श्चिमः स सर्वः सर्वस्यामेरभावेऽनुपपन्न इतिः । न पुनर्नियतधर्म्यु
लेखन पर्वते गृहेऽरण्ये वा. धूमोऽज्यभावेऽनुपपन्नः इति । यत्पुनस्रोक्तं
"Aho Shrut Gyanam"