________________
परि. ३.सू. ८ ]
स्याद्वादरत्नाकरसहितः
नाप्येककालत्वम् । यतः --
पूरः स्रोतस्विनीसक्तो वृष्टिकाले न विद्यते ॥ कृत्तिकोदयवेलायां न चास्ति शकटोदयः ॥ ४६९ ॥
१०५
किंच कस्य केनायमविनाभावः किं सामान्यस्य सामान्येन, सामान्यस्य विशेषैः,विशेषाणां सामान्येन, विशेषाणां विशेषैर्वा । न प्रथमपक्षः । ५ यतो न सामान्यस्य सामान्येन व्याप्तिरनुमानाङ्गम् । तदा हि तत्र सामान्यमेव साध्यं स्यात् । तस्य च नित्यत्वविभुत्वाभ्यां सकलदेशकालसम्बन्धितया सुप्रसिद्धस्य साधने सिद्धसाध्यता स्यात् । द्वितीयपक्षेऽपि देशकालाभ्यामनवच्छिन्नैर्विशेषैः सामान्यस्याविनाभावोऽवच्छनैर्वा । यद्यनवच्छिन्नैः, तदा सिद्धसाध्यतैव । देशकालानवच्छिन्नानां १० वयादिविशेषाणामतिप्रतीतत्वात् । अथ देशकालावच्छिन्नैः, तदानुगमाभावः । न हि धूमसामान्यस्य पर्वतादिस्थैरभिविशेषैरनुगमोऽस्ति । तस्य तदन्तरेणापि पाक प्रदेशादावुपलम्भात् । तृतीयपक्षेऽपि सिद्धसाध्यता साधनवैकल्यं च दृष्टान्तस्य । महानसे पर्वतस्थधूम विशेषस्यासम्भवात् । विशेषाणां विशेषैरिति तुरीयपक्षेऽपि दुःशकमविना- १५ भावग्रहणम् । तेषामानन्त्यात् । अपि चाम्यभावे धूमानुपपत्तिरिति व्यतिरेकव्याप्तौ किमेकस्य कस्यचिदग्मेरभावे धूमानुपपत्तिर्गृह्यते सर्वस्य वा । न तावदेकस्य । एकस्याभावेऽप्यभ्यन्तरे धूमस्य गृह्यमाणत्वात् । नापि सर्वस्य । उपहितग्रहणस्योपाधिग्रहणमन्तरेणासम्भवात् । धूमानुपपत्तेश्व समस्तान्यभाव एवोपाधिर्न चासौ प्रतियोगिषु सर्वाभिप्व - २० गृहीतेषु ग्रहीतुं शक्यते । अपि च यत्सद्भाव एव यस्य निवृत्तिस्तेनैव तस्य विरोधः । तदिह धूमाभाव एव सति धूमस्य निवृत्सिदृश्यत इति घूमाभावेनैवास्य विरोधो न त्वम्यभावेन । केवलाङ्गाराद्यवस्थायामम्यभावाभावेऽपि धूमनिवृत्तेः प्रतीयमानत्वात् । अतो न व्याप्तिर्विचार्यमाणत्वात्कथं तद्राहिणस्तर्कस्य प्रामाण्यम् । किं च : व्याप्तौ सत्यामपि न धूमादमिपैङ्गल्यमनुमीयते । वहेरेव धूमेनानुमीयमानत्वात् ।
I
.२५
" Aho Shrut Gyanam"