________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ३ सू. ७
स्योत्पत्तिरेव न सम्भवति । अनवबुद्धसाध्यसाधनसम्बन्धस्य कचित्कदाचिदुत्पत्त्यप्रतीतेः । तर्कस्य तु सम्बन्धग्रहण निस्पेक्षैव प्रत्यक्षवदुत्पत्तिएव । न खलु प्रत्यक्षस्याप्युत्पत्तिः करणार्थसम्बन्धग्रहणापेक्षा प्रतिपन्ना | स्वयमगृहीततत्सम्बन्धस्यापि प्रतिपत्तिस्तदुत्पत्तिप्रतीतेः, ५ तद्वत्तर्कस्यापि
You
१०
१५
स्वार्थसम्बन्धग्रहणानपक्षस्याप्युत्पत्तिप्रतिपत्तेर्नोत्पत्तौ
सम्बन्धग्रहणापेक्षा युक्तिमतीति सर्वं चतुरस्रम् ॥ ७ ॥
एतच्च तर्कनामधेयं व्याप्तिज्ञानं तथोपपत्त्यन्यथानुपपत्तिभ्यां प्रवर्तत इति निदर्शयन्नाह -
'यथा यावान्कश्चिद्धमः स सर्वो वही सत्येव भवतीति तस्मिन्नसत्यसौ न भवत्येवेति ॥ ८ ॥
अतिरोहितार्थमिदम्
अत्राह कश्चित्
तर्कप्रामाण्यमसहमानस्य कस्यचिन्मतस्य
प्रमाणतायामुपपादितायां तर्कस्य युक्ता ननु लक्षणोक्तिः ॥
खण्डनम् । एषा तु सद्युक्तिपरम्पराभि
विचार्यमाणस्य न तस्य युक्ता ॥४६६ ॥
तथा हि विषयव्यवस्थापकं प्रमाणं तर्कस्य च विषयो व्याप्तिलक्षण: प्रतिज्ञायते भवद्भिर्व्याप्तिश्च विचार्यमाणा नावस्थां बध्नाति । यतः साध्यसाधनयोः सम्बन्धो व्याप्तिः सम्बन्धश्चैकदेशत्वमेककालत्वं २० वा तयोर्भवेत् । न तावदेकदेशत्वम् । यतःप्रबलपषनवेलद्वैजयन्ती वितानप्रतिमकलितमूर्तिव्यग्नि धूमप्रबन्धः | ज्वलति वसुमतीमृद्वप्रनिष्ठे निकुञ्जे वचन पुनरनल्पज्यालशाली कृशानुः
-
॥ ४६७ ॥
शैवालजालजटिलं तटिनीस्रोतः समस्त्यधोवर्त्ति ॥ २५ वचन शिलोच्च शिखरे वृष्टिः पुनरुद्धरप्रसरा ॥ ४६८ ॥
" Aho Shrut Gyanam"