________________
परि० ३ सु.. ७ ]
स्याद्वादरत्नाकरसहितः
शब्दस्य वाच्य इत्यागमादेरपि सा भवति । तदूर्ध्वं तु व्याया तं प्रति यस्तर्कादेव प्रत्येति, अये इत्थंम्भूत इत्थम्भूतस्य सर्वः सर्वस्य वाचको वाच्यश्चेति । ननु तर्कः स्वविषयेण 'सम्बद्धो वाऽसम्बद्धो वा तमवबोधयति । न तावदसम्बद्धः । अतिप्रसङ्गात् । अथ सम्बद्धः, कुतस्तत्सम्बन्धप्रतिपत्तिः । प्रत्यक्षादनुमानात्तर्कान्तरात्प्रमाणान्तराद्वा । न ५ तावत्प्रत्यक्षात्, तस्य तदविषयत्वात् । नाप्यनुमानात्, अनवस्थानुषङ्गात् । तदपि ह्यनुमानं तर्कपूर्वकमिति तत्रापि तर्कस्य स्वविषयेण सम्बन्धग्राहकमनुमानान्तरमन्वेषणीयमिति । नापि तर्कान्तरात्, तत एव तर्कान्तरस्यापि स्वविषयसम्बन्धबोधपूर्वकत्वात्तस्याप्यपरतर्कनिबन्धनत्वात् । नाँपि प्रमाणान्तरात्, तस्यापि प्रमाणत्वेऽपि स्वविषयसम्बन्ध- १० बोधपूर्वकं प्रवर्त्तमानत्वादनवस्थापत्तेः । अथाप्रतिपन्नसम्बन्ध एव तर्कः स्वविषयज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषात्स्वविषयमेव बोधयति । तर्हि तत एवानुमानमप्यप्रतिपन्नसम्बन्धमेव स्वगोचरमवभासयतु । कृतं तत्प्रतिपत्तिनिमित्ततर्कप्रमाणपरिकल्पनेनेति कश्चित् । सोऽपि यदि प्रामाणिकस्तर्हि तस्यापि प्रत्यक्षं स्वविषयमवबोधयत्सम्बद्धमेवावबोध- १५ येन्नासम्बद्धम् । अतिप्रसङ्गात् । तत्सम्बन्धश्च नानुमानादेः सिद्धयति । अनवस्थानुषङ्गात् । नापि प्रत्यक्षान्तरात् अनवस्थानुषङ्गादेवेत्यादि सकलं प्रत्यक्षेऽपि समानम् । अथ न प्रत्यक्षं स्वविषयसम्बन्धावबोधनिबन्धनं तत्र प्रवर्त्तते तस्य स्वविषये स्वयोग्यताबलादेव प्रवृत्तिरिति चेत्, तर्हि तथा तर्कस्यापि स्वयोग्यता विशेषसामर्थ्यादेव स्वविषय- २० प्रत्यायन सिद्धिर्भवतु | योग्यताविशेषः पुनः प्रत्यक्षस्येव स्वविषयज्ञानावरणवीर्यान्तरायक्षयोपशमविशेष एव तर्कस्यापि प्रतिपत्तव्यः । यथा च प्रत्यक्षस्योत्पत्तौ मनोऽक्षादयो योग्यतायाः सहकारिणो बहिरङ्गास्तथा तर्कस्यापि समुद्भूतावुपलम्भानुपलम्भावनुमन्येते । तदन्वयव्यतिरेकानुविधायित्वात्तस्य । यच्च तत एवानुमानमप्यप्रतिपन्नसम्बन्धमेव स्वगो - २५ चरमवभासयत्वित्युक्तम् । तत्र साध्यसाधनसम्बन्धग्रहणनिरपेक्षानुमान -
" Aho Shrut Gyanam"
५००-३