________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि० ३ ०७
"स्मरणे पदविषयसंकेतस्मरणे च सति सुबन्तं तिङन्तं च पदमिति “प्रत्यभिज्ञानमुपजायते । तथा पूर्वपूर्वपदश्रवणा हितसंस्कारस्यान्त्यपदश्र'वणानन्तरमनुक्रम विशिष्टपूर्वपदानां वाक्यगोचरसङ्केतस्य च स्मरणे सति -वाक्यमिदमिति प्रत्यभिज्ञानमुन्मज्जति । एवं तयोर्वर्णपदवाक्यग्रहणं ५ प्रत्यभिज्ञानात् । ततोऽपि मध्यमवृद्धं चेष्टमानमवलोकयन्बालस्तटस्थस्तस्यार्थप्रतीति तावत्कल्पयति । आत्मनि तत्पूर्विकायाश्चेष्टाया 'दृष्टत्वात् । प्रमाणान्तरासन्निधादेतद्वृद्धप्रयुक्त शब्दसमनन्तरं च प्रवृत्तोऽयमित्यत एव शब्दात्किमप्यनेन प्रतिपन्नमिति मन्यते । तमर्थं तेन वृद्धेनानीयमानमेवमवबुध्यतेऽयमर्थोऽमुतः शब्दादनेनावगत इति स १० चार्थोऽनेक गुणक्रियाजा तिव्यतयादिरूपसङ्कुल उपलभ्यते । शब्दोऽप्यनेकपदकदम्बकात्मा श्रुतः, तत्कतमस्य शब्दांशस्य कतमोऽशो वाच्य इति सन्दिग्धे कालान्तरे च गां नयेत्यादिकमाकर्णयति । तत्र च गोशब्दानुवृत्तिमानयेत्यस्य तु व्यावृति विभावयति । ततोऽपि कदाचन वाजिनमानयेति शृणोति, २५ तत्रापि गोशब्दस्य व्यावृत्तिमानयेत्यस्य त्वनुवृर्ति व्यवस्यति । तदनुसारेण च गवादेरप्यर्थस्यानुवृत्तिव्यावृत्ती समाकलयति । तत इत्थमावापोद्वापाभ्यामनन्तरमीदृग्जातीयोऽर्थ ईहम्जातीयस्य वाच्यः सोऽपि तस्य वाचक इतीत्थं वाच्यवाचकभावालम्बनसर्कल विवक्षितवाच्यवाचक विशेषसमुल्लेखशेखरस्तर्कः समुल्लसति । कचित्तु यदा कश्चित्त२० र्केण वाच्यवाचकभावं स्वयमवेत्य परमप्यनेनैव तमवबोधयिष्यंस्तदनुसारिपरसन्ताने तर्कोत्पत्तिहेतुं वचनं परार्थतर्करूपमुचारयति । तदा तस्मादप्यस्योल्लासः । यथा कश्चन पिता परमवत्सलो वत्साय कञ्चन प्रदार्थं पुरस्कृत्य कथयति, इत्थम्भूतमित्थम्भूतस्य शब्दस्य वाच्यं यत्स जानीहि तदाऽसावुपलम्भानुपलम्भद्वारेण तथा प्रतिपद्यमानस्तर्कादेव
"
२५ वाच्यवाचकभार्थं प्रतिपद्यते । इयं च व्याझ्या वाच्यवाचकभावप्रतीतिरुपदर्शिता । शुङ्गग्राहिका तु नियतायां व्यक्तावयं पुरोवती भावोऽस्य
५०२
" Aho Shrut Gyanam"