________________
परि० ३ सू. ७ ]
स्याद्वादरत्नाकरसहितः
पलम्भानुपलम्भाभ्यामनन्तरमेव तर्कः समुत्पद्यते । कचिदसकृत्पूर्वप्रवृत्ततदुपलम्भानुपलम्भाभ्यामनन्तरं पुनः कदाचित्साध्यसाधनावगमस्ततः प्राग्दृष्टयोस्तयोः स्मृतिः पश्चात्प्रत्यभिज्ञानं तदनु तर्कः समुपजायत इति । उक्तं कारणम् । विषयमाह – त्रिकाळीकलितसाध्यसाधनसम्बन्धाद्यालम्बनमिति । त्रिकाळीकलितसाध्यसाधनयो: ५ सम्बन्धोऽविनाभावो व्याप्तिरित्यर्थः । स आदिर्यस्य त्रिकालीकलितवाच्यवाचकसम्बन्धस्य स आलम्बनं गोचरो यस्य तत्तथा । स्वरूपमाह --- इदमस्मिन्सत्येव भवतीत्याद्याकारमिति । आदिशब्दादिदमस्मिन्नसति न भवत्येवेत्याद्याकारं साध्यसाधनसम्बन्धालम्बनमेवंजातीयः शब्द एवंजातीयस्यार्थस्य वाचकः सोऽपि तथाभूतस्तथाभूतस्य १० तस्य वाच्य इत्याद्याकारं वाच्यवाचकभावालम्बनं च स्वरूपमुपादीयते । संवेदनं ज्ञानम् । ऊह इत्यपरं नाम यस्य स ऊहापरनामा तर्क इति तर्कज्ञैः कीर्त्यते ।
वाच्यवाचकभावालम्बन
ननु वाच्यवाचकभावालम्बनं ज्ञानं कथं तर्कः । उच्यते । नेदं तावत्प्रत्यक्षम्, चक्षुरादिज्ञानस्य शब्दपरिहारेण १५ ज्ञानस्य तर्ऋत्वम् । आवा-रूपादावेव श्रोत्रज्ञानस्य च रूपादिपरिहारेण पापादुत्पत्ति-शब्द एव प्रवर्त्तमानत्वाच्चक्षुरादिज्ञानं श्रोत्रज्ञानं रितिवर्णनम् । च प्रतिनियत एव रूपादौ शब्दे च प्रवर्त्तते । न च सकलशब्दार्थगोचरमन्यज्ञानमस्तीति तर्क एव तथा युक्तः । अस्य चोत्पत्तिः कचित्तावदावापोद्वापाभ्याम् । तथा युत्तमवृद्धे गामान. २० येत्यादिशब्दमुच्चारयितरि तत्र गृहीतसङ्केतस्य मध्यमवृद्धस्या गृहीतसङ्केतस्य च बालस्य वर्णपदवाक्यविषयसङ्कलनात्मकं प्रत्यभिज्ञानमुत्पद्यते । तथा हि पूर्वपूर्ववर्णावयवश्रवणाहितसंस्कारस्यान्त्यावयवश्रवणानन्तरं पूर्वतदवयवस्मरणे हस्वादिविषयसङ्केतस्मरणे च सति हस्वो तो वाऽयं वर्ण इति प्रत्यभिज्ञानं भवति । तथा पूर्वपूर्ववर्ण- २५ श्रवणाहितसंस्कारस्यान्त्यवर्णश्रवणानन्तरं पूर्ववर्णानामनुक्रमविशिष्टानां
३२
५०१
"Aho Shrut Gyanam"