________________
५००
१५
प्रमाणनयतत्वालोकालङ्कारः
एवं न प्रत्यभिज्ञानेऽध्यक्षत्वमुपपद्यते ।
भट्टचट्टाः परोक्षत्वं तदत्राभ्युपगम्यताम् ॥ ४६३ ॥
२०
ततश्च -
17
सर्वं सङ्कलनाज्ञानं दर्शनस्मृतिहेतुकम् ।
तत्सिद्धं प्रत्यभिज्ञानमेकत्वादिप्रकाशकम् ॥ ४६५ ॥ ६ ॥ इदानीं क्रमप्राप्तस्य तर्कस्य कारणगोचरस्वरूपनिरूपणायाह---- उपलम्भाऽनुपलम्भसम्भवं त्रिकालीकलितसाध्य१० साधनसम्बन्धाद्यालम्बनमिदमस्मिन्सत्येव भवतीत्याकारं संवेदनमूहापरनामा तर्क इति ॥ ७ ॥
उपलम्भानुपलम्भाभ्यां संम्भव उत्पादो यस्य तत्तथा । सवेदनं तर्क इत्युत्तरेण योगः । उपलम्भानुपलम्भौ चेह साध्यसाधनयोः प्रमाणमात्रेण ग्रहणाग्रहणे अभिप्रेते । तेनातीन्द्रियसाधनेष्वागमानुमाननिबन्धनयोरपि ग्रहणाग्रहणयोरुपादानात्तत्सम्बन्धस्यापि तर्कस्य संग्रहान्नाव्याप्तिलक्षणदोषः । यथा तस्य प्राणिनो धर्मविशेषो विशिष्टसुखादिसद्भावान्यथानुपपत्तेरित्यादौ । आदित्यस्य गमनशक्ति - रस्ति गमनान्यथानुपपत्तेरित्यादौ वेति । न हि धर्मविशेषः प्रस्तुतानुमानात्पूर्वं ""शुभः पुण्यस्य " इत्यादिप्रवचनादन्यतः प्रतिपत्तुं पार्यते । नापि गमनशक्तिः प्रकृतानुमानात् । प्राग्यत्कार्यं तच्छक्तिमत्कारणपूर्वकं यथा सम्प्रतिपन्नं कार्यं च गमनमित्येवं रूपानुमानान्तरादन्यतोऽवगन्तुं शक्यते । तयोर्नित्यमतीन्द्रियत्वात् । अनयोश्चोपलम्भानुपलम्भयोः कचिदानन्तर्येण तर्क प्रति कारणत्वमवसेयम् । व्याप्तिग्रहणकाले हि कचित्क्षयोपशमविशेषवशात्सकृत्साध्यसाधनो
१ तत्त्वार्थ. ६।३.
[ परि. ३ स. ७
सुगतगोतमजैमिनिनन्दनैर्यदिह दूषणवृन्दमुदीरितम् | तदखिलं स्खलितं खललोकवत्सुजनचेष्टितचारुभिरुत्तरैः ॥ ४६४ ॥
" Aho Shrut Gyanam"