________________
परि, ३ मू.६] स्याद्वादरत्नाकरसहितः लभ्यायं स हंसशब्दवाच्य इत्यादिरूपतया तत्संज्ञासंज्ञिसम्बन्धं प्रतिपद्यते । तदा किं नाम तत्प्रमाणं स्यात् । उपमानमित्यसम्भाव्यम् । सर्वोक्तप्रकारेण प्रतिपत्तौ प्रसिद्धार्थसाधासम्भवात् । ततः प्रतिनियतप्रमाणव्यवस्थामभ्युपगच्छता न्यायशालिना प्रतिपादितप्रकारं प्रतीतिकदम्बकं प्रत्यभिज्ञानमेवेति स्वीकर्त्तव्यम् । भूयोऽपि भाट्टः प्राह- ५
परोक्ष प्रत्यभिज्ञानमिति क्षमायै नैव नः ॥
यतः प्रत्यक्षतैवास्य न्यायगोचरमञ्चति ॥ ४६२ ॥ तथा हि, प्रत्यभिज्ञानं प्रत्यक्षम् । अक्षान्वयव्यतिरेकानुविधायित्वात् । यदित्थं तदित्थं यथा सम्प्रतिपन्नं प्रत्यक्षमिति । न च स्मरणपूर्वकत्वात्प्रत्यभिज्ञानस्य प्रत्यक्षत्वाभावः । स्मरणात्पश्चाद्भावित्वेऽपि सत्स- १० म्प्रयोगजत्वेन प्रत्यक्षत्वाविरोधात् । यदाह-" न हि स्मरणतो यत्तन्न प्रत्यक्षमितीदृशम् ॥ वचनं राजकीय वा लौकिकं वापि विद्यते ॥ १॥ न चापि स्मरणात्पश्चादिन्द्रियस्य प्रवर्तनम् ॥ वार्यते केन चिन्नापि तत्तदानी प्रदुष्यति ॥२॥ तेनेन्द्रियार्थसम्बन्धात्प्रागचं चापि यत्स्मृतेः । विज्ञानं जायते सर्व प्रत्यक्षमिति १५ गम्यताम् ॥ ३॥” इति । नैतदपि न्याय्यम् । यतोऽक्षान्वयव्यतिरेकानुविधायित्वं प्रत्यभिज्ञानस्य साक्षाद्विवक्षितं पारम्पर्येण वा । यदि पारम्पर्येण, तदानुमानादिनास्य व्यभिचारः । तस्य प्रत्यक्षलक्षितलिङ्गादि. द्वारेणोपजायमानस्य परम्परयाऽक्षान्वयव्यतिरेकानुविधायिनोऽपि प्रत्यक्ष. त्वाभावात् । साक्षादक्षान्वयव्यतिरेकानुविधायित्वं त्वसिद्धम् । प्रत्य. २० भिज्ञानस्य साक्षात्प्रत्यक्षस्मरणान्वयव्यतिरेकानुविधाथित्वेनानुभूयमानत्वात् । साक्षादक्षान्वयव्यतिरेकानुविधायित्वे पुनरस्य प्रथमव्यक्तिदर्शनकालेऽप्युत्पत्तिः स्यात् । अथ पुनदर्शने पूर्वदर्शनाहितसंस्कारप्रबोधोत्पन्नस्मृतिसहायमिन्द्रियं प्रत्यभिज्ञानमुत्पादयतीत्युच्यते । तदनुचितम् । प्रत्यक्षस्य स्मृतिनिरपेक्षत्वात् । सापेक्षत्वे तु प्रत्यभिज्ञानस्या- २५ नुमानादिवत्परोक्षतैव ज्यायसी।
"Aho Shrut Gyanam"