________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ६ समानमिति । एतेन गौरिव गवय इत्युपमानवाक्याहितसंस्कारस्य पुनवने गवयदर्शनेऽयं गवयशब्दवाच्य इति संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरुपमानमिति नैयायिकमतमपि प्रतिहतम् । यथैव धेकदा कुम्भमुपलब्धवतः पुनः कालान्तरे तस्यैव दर्शने स एवायं कुम्भ इति प्रतिपत्तिः ५ प्रत्यभिज्ञा प्रतिज्ञायते, तथा गोसदृशो गवय इति संकेतकाले गवयतदभिधानयोर्वाच्यवाचकसम्बन्ध प्रतिपद्य पश्चाद्वयदर्शनात्तत्प्रतिपत्तिः प्रत्यभिज्ञा प्रतिज्ञायताम् । किं च गोविलक्षणमहिष्यादिदर्शनाद्वयशब्दवाच्योऽयं न भवतीति तत्संज्ञासंज्ञिसम्बन्धप्रतिषेधप्रतिपत्तिः
किं नाम प्रमाणं स्यात् । अथेयमप्युपमानमिष्यते । तदा “प्रसिद्ध१० साधर्म्यात्साध्यसाधनमुपमानम्" इति व्याहन्येत । प्रसिद्धवैधा
बेत्युपसङ्ख्यानं वा सूने कर्त्तव्यम् । तथाऽऽमलकदर्शनाहितसंस्कारस्य बिल्वादिदर्शनादतस्तत्सूक्ष्ममिति प्रतीतिः स्वसमीपवर्तिप्रासादादिदर्शनोपजनितसंस्कारस्य तत्प्रतियोगिपर्वताद्युपलम्भादिदमस्माद्दरमिति प्रति
पत्तिः, हस्वर्शिशपादिदर्शनाविभूतसंस्कारस्य तद्विपरीतवटवृक्षा१५ द्यर्थोपलम्भादतोऽयं प्रांशुरिति विनिश्चितं किं प्रमाणं भवेत् । तथा चोक्तम् । उपमानं प्रसिद्धार्थसाधर्म्यात्साध्यसाधनम् । तद्वैध
ात्प्रमाणं किं स्यात्संज्ञिप्रतिपादनम् ॥१॥ इदमल्पं महद्दरमासनं प्रांशु नेति वा ।। व्यपेक्षातः समक्षार्थे विकल्पः साधनान्तरम्।।२॥"
इति । साधनान्तरं स्यादिति । तथा हंसाधनभिज्ञो यदा कश्चित्क्वचि२० पृच्छति कीदृशो हंसादिरिति । तदा स तं प्रति " पयोम्बुभेदीहंसः
स्यात्षट्पादैर्धमरः स्मृतः ॥ सप्तपर्णैः सुतत्त्वविज्ञेयो विषमच्छदः ॥१॥ पञ्चवर्ण भवेद्रलं मेचकाख्यं पृथुस्तनी ॥ युवतिश्चैकशङ्गोऽपि गण्डकः परिकीर्तितः ॥२॥ शरभोऽप्यष्टमिः पादैः सिंहश्वारुसटन्वितः ” इत्यादिकमाह । ततश्चैतद्वाक्याहित२५ संस्कारः प्रष्टा यदा पयोम्बुभेदित्वाद्युपलक्षितानान्कालान्तरे समुप
१ गौ. सू. १।१।६. २ — सप्तपर्णैस्तु ' इति प. भ. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"