________________
परि. ३ सू. ६ ]
स्याद्वादरत्नाकरसहितः
४९
अत्राह भाट्टःसादृश्यज्ञानस्योपमानत्व- सादृश्यगोचरज्ञानमुपमानस्वरूपताम् ।। मेव न प्रत्यभिज्ञानत्वमिति सीकरोति न पुनः प्रत्यभिज्ञानरूपताम् तत्खण्डनम् ।
॥ ४६१ ॥ तथा हि, गोदर्शनाहितसंस्कारस्य प्रमातुः पश्चाद्वयदर्शनं गवि ५ स्मरणे सत्यनेन सदृशः स इत्येवमाकारतयोपजायमानस्य ज्ञानस्योपमानत्वमेव न्याय्यं न प्रत्यभिज्ञानत्वम् । तस्यैकत्वविषयत्वेनैव व्यवस्थितत्वात् । सादृश्यविशिष्टो विशेषो विशेषविशिष्टं वा सादृश्यमुपमानस्यैव प्रमेयम् । उक्तं च---- " तस्माद्यत्स्मयते तत्स्यात्सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ १ ॥ १० प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसिद्धरुपमानप्रमाणता" ॥२॥ इति । एतदपरीक्षकलक्षितम् । सादृश्यप्रतीतेः सङ्कलनाज्ञानरूपतया प्रत्यभिज्ञानताऽनतिक्रमात् । स एवायमिति यथोत्तरपर्यायस्य पूर्वपर्यायेणैकताप्रतीतिः प्रत्यभिज्ञानमेवमनेन सदृशः स इत्येषापि । सङ्कलनात्मकत्वाविशेषात् । यदि १५ चैकत्वज्ञानमेव प्रत्यभिज्ञानं सादृश्यज्ञानं तूपमानमित्यभ्युपगमः । तर्हि वैलक्षण्यज्ञानं किं नाम प्रमाणं स्यात् । यथैव हि गोदर्शनाहितसंस्कारम्य गवयदर्शिनोऽनेन सदृशः स इति प्रतिपत्तिः । तथा महिषादिदर्शिनोऽनेन विलक्षणः स इति वैलक्षण्यप्रतीतिरप्यस्ति सा च न प्रत्यभिज्ञानोपमानयोरन्तर्भवति । एकत्वसादृश्यविषयत्वात् । अतः २० प्रमाणान्तरं प्रमाणसङ्ख्यानियमविघातकृद्भवेद्भवतः । अथ सादृश्याभावो वैलक्षण्यं तस्याऽभावविषयत्वान्न प्रमाणसङ्ख्या नियमविघातः । तर्हि वैलक्षण्याऽभावः सादृश्यमिति स एव दोषः । नन्वनेकस्य समानधर्मयोगः सादृश्यं तत्कथं वैलक्षण्याभावमात्रं स्यादिति चेत् । तर्हि वैलक्षण्यमपि विसदृशधर्मयोगस्तत्कथं सादृश्याभावमात्रं स्यादिति २५
१ मी..लो. वा. उप. प. सू.५श्लो . ३४३८,
"Aho Shrut Gyanam"