________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ३ सू. ६
५
1
न चात्र बोधरूपतया समनन्तरकारणत्वं प्रत्यभिज्ञाने तु स्मरणरूपतयेति वाच्यम् । स्मरणबोधरूपतयोस्तादात्म्ये सति क्वचिद्बोधरूपतया समनन्तरकारणत्वं स्मरणस्य क्वचित्तु स्मरणरूपतयेति व्यवस्थापयितुमशक्तेः । यदि च स्मरणानन्तरभावित्वात्प्रत्यभिज्ञानमप्रमाणमिति प्रतिपाद्यते । कथं तर्हि अनुमानमपि प्रमाणं स्यात् । तद्धि साध्यसाधनसम्बन्धस्मरणानन्तरमेवोपजायते । अन्यथा दृष्टान्तोपन्यासस्तत्र व्यर्थो भवेत् । तन्न स्मरणानन्तरभावित्वादपि प्रत्यभिज्ञानमप्रमाणम् । अथ बाध्यमानत्वात्तत्तथा कथ्यते, तदपि न तथ्यम् । तद्बाधकस्य कस्यचिदप्यनुपपत्तेः । यन्नैकत्वविषयस्य प्रत्यभिज्ञानस्यापह्नवः कर्तुमुचितः । १० नापि सादृश्यगोचरस्य, अनुमानानुत्पत्तिप्रसङ्गात् । येनैव हि पूर्व धूमष्टस्तस्यैवोत्तरकालं पूर्वं धूमसदृशधूम दर्शनादम्यनुमानोत्पत्तिर्युका नाऽन्यस्याऽन्यदर्शनात् । न च प्रत्यभिज्ञानमन्तरेण तेनेदं सदृशमिति प्रतिपत्तिर्घटते ! पूर्वप्रत्यक्षेणोत्तरस्योत्तरप्रत्यक्षेण च पूर्वस्य धूमादिवस्तुनोऽप्रतिपत्तेः । न च द्वयाप्रतिपत्तौ द्विष्ठं सादृश्यं प्रतिपत्तुं शक्यम् । १५ अतिप्रसङ्गात् । सादृश्यसार्थाभ्यां भिन्नाभिन्नादिविकल्पैर्विचार्यमाणस्यानुपपत्तेस्तद्गोचरप्रत्यभिज्ञानस्य कथं प्रमाणत्वमिति च न शङ्कनीयम् । सादृश्यस्य सामान्यप्रतिष्ठाव सरे व्यवस्थापयिष्यमाणत्वात् । न च तस्मिन्नेव स्वपुत्रादौ भ्रान्त्या तादृशोऽयमिति प्रत्यभिज्ञानं सादृश्यनिबन्धनं स एवाऽयमित्येकत्वनिबन्धनप्रत्यभिज्ञानेन बाध्यमानमप्रमाणं प्रतिपद्य स्वपुत्रा२० दिना सदृशे पुरुषे तादृशोऽयमित्यपि प्रत्यभिज्ञानमप्रमाणं प्रतिपादयितुं युक्तम् । तस्याबाध्यमानत्वेन प्रमाणत्वात् । एवं वैलक्षण्यादि - विषयाण्यपि प्रत्यभिज्ञानानि समर्थनीयानि । ततश्च -
४९६
२५
हंहो बौद्धाः स्वमतविषयं पक्षपातं विधूय
अयं प्रौढप्रमितिवशतः प्रत्यभिज्ञाप्रमाणम् ॥
यस्मादेषा भवति सततं लोकयात्रा समग्रा
कोऽपि क्वाऽपि स्वपरनियमं नाऽन्यथा हन्त कुर्यात् ||४६० ॥
"Aho Shrut Gyanam"