________________
परि. ३.६ ]
स्याद्वादरत्नाकर सहितः
1
।
सिध्येत् । ततो यथा शुक्ले शङ्क्ते पीताभासं प्रत्यक्षं तत्रैव शुक्ला - भासप्रत्यक्षान्तरेण बाध्यमानत्वादप्रमाणं न पुनः पीते कनकादौ । तथा प्रकृतमपीति । तन्न विषयाभावात्प्रत्यभिज्ञानमप्रमाणम् । अथ गृहीतग्राहित्वात्तत्तथेष्यते, तत्र तद्विषयो हि प्रत्यक्षेण गृह्येत स्मरणेन प्रमाणान्तरेण वा । न तावत्प्रत्यक्षेण, तस्य वर्त्तमानविवर्त - ५ : मानालिङ्गितद्रव्यगोचरचारित्वात् । नापि स्मरणेन तस्यातीतपर्यायमात्रावच्छिन्नद्रव्यविषयत्वात् । नापि प्रमाणान्तरेण उभयविवर्त्तवर्त्तिद्रव्यादिग्राहकस्य प्रत्यभिज्ञानात्पूर्वमन्यस्य प्रमाणस्य प्रवृत्तेरननुभवात् । प्रत्यक्षस्मरणजनितकल्पनाज्ञानमस्तीति चेत्, न । तस्यैव प्रत्यभिज्ञानत्वनास्माभिरप्यभ्युपगमात् । ननु यदि प्रत्यक्षस्मरणयोरुभयविवर्त्त - १०. .वर्तिद्रव्यमविषयः । तर्हि कथं ताभ्यां तत्र प्रत्यभिज्ञानं जायेत । तथा हि, यद्यस्य विषयो न भवति न तत्तत्र विज्ञानमुत्पादयति, यथा चक्षू रसे । न भवति चोभयविवर्त्तवर्त्ति द्रव्यं विषयः प्रत्यक्षस्मरणयोरपीति चेत् । तदप्यनुपपन्नम् । विकल्पोत्पादकाध्यक्षेणानेकान्तात् । तस्यान्यगोचरस्यापि सामान्ये विकल्पोत्पादकत्वप्रतीतेः । १५. अथ विकल्पवासनासहायमविकल्पकं स्वाविषयेऽपि सामान्ये विकल्पमुपजनयति । सहकारिणामचिन्त्यशक्तिकत्वात् । अन्यथा कथमसर्वज्ञानमभ्यासविशेषसहायं सर्वज्ञज्ञानं जनयेदिति चेत् । तर्हि प्रत्यभिज्ञानावरणक्षयोपशमसहाये प्रत्यक्षस्मरणे अपि स्वाविषये उभयविवर्त्तवर्त्तिनि द्रव्ये प्रत्यभिज्ञानमुपजनयतामविशेषात् । एतेन तस्य हि २०. विषयः पूर्वज्ञाने प्रतिभातमेव वस्तु तदतिरिक्तं चेत्यादि पूर्वपक्षश्रन्यः कदर्थितो द्रष्टव्यः । उक्तनीत्या प्रत्यभिज्ञानविषयस्य व्यवस्थापितत्वात् । तन्न गृहीतमा हित्वात्प्रत्यभिज्ञानमप्रमाणम् । अथ स्मरणानन्तरभावित्वातत्तथाऽनुमन्यते । तदप्यनुपपन्नम् । रूपस्मरणानन्तरं रससन्निपाते समुत्पन्नस्य रसज्ञानस्याप्यप्रामाण्यप्रसङ्गात् । तत्र हि रूपस्मरणस्य २५. पूर्वकालभावित्वात्समनन्तर कारणत्वम् । बोधाद्बोधरूपतेत्यभ्युपगमात् /
४९५:
" Aho Shrut Gyanam"