________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ३ सु. ६
शिष्टः । तन्न विरुद्धधर्माध्यासितत्वात्प्रत्यभिज्ञानस्याभावो युक्तः । नापि कारणाभावतः । दर्शनस्मरणलक्षणस्य तत्कारणस्य सूत्रे प्रतिपादितत्वात् । ननु कथं पृथग्गोचरयोर्विभिन्नाकारयोश्ध दर्शनस्मरणयोः प्रत्यभिज्ञाने कारणतेति चेत् । तेनानुविधीयमानान्वयव्यतिरेकत्वात् ५ अङ्कुरादिनानुविधीयमानान्वयव्यतिरेकस्य बीजादेरिव । तत्र न खलु बीजादेरङ्कुरादौ कारणतायां तेनान्वयव्यतिरेकानुविधानादन्यन्निबन्धनमस्ति । तन्न प्रत्यभिज्ञानस्य कारणाभावादप्यभावो युक्तः । अपि चेदं प्रत्यभिज्ञानं कार्यम् । कार्यं च प्रतीयमानं कारणसद्भावमवबोधयति । अतः कथमस्य कारणाभावो ज्यायान् । ततश्च कारणाभावाच्च १० न तत्सम्भवीत्यादि प्रत्यादिष्टम् । यच्चान्यदुपन्यस्तं सम्भवतु वा तथापि न तत्प्रमाणं विषयाभावादिति । तदप्ययुक्तम् । विषयाभावस्यासिद्धेः । पूर्वोत्तरविवर्त्तवथैकद्रव्यादेस्तद्विषयस्य सद्भावात् । नच दर्शनस्मरणयेोरेवायं विषय इति वाच्यम् । दर्शनस्य हि वर्तमानकालावछिन्नः स्मरणस्य पुनरतीतकालावच्छिन्नपदार्थो विषयः प्रत्यभि१५ ज्ञानस्य तूभयकालावच्छिन्नद्रव्यादि । न चाशेषार्थानां क्षणिकत्वतो द्रव्यस्य कस्यचिदप्यसम्भवात्कथं तस्य तद्विषयता प्रार्द्धत इत्यभिघातव्यम् । क्षणभङ्गप्रतिषेधेन द्रव्यसिद्धेः पुरस्तादुपपादयिष्यमाणत्वात् । न च लूनपुनर्जातनखकेशादिष्विव सर्वत्र निर्विषया प्रत्यभिज्ञा । क्षणक्षयैकान्तस्यानुपलम्भात् । तदुपलम्भे हि सा निर्विषया २० स्यात् । एकचन्द्रोपलम्भे द्विचन्द्रप्रतीतिवत् । लूनपुनर्जातनखकेशादौ च स एवायं नखकेशादिरित्येकत्वपरामर्शिप्रत्यभिज्ञानं लननख केशादिसदृशोऽयं पुनर्जातनखकेशादिरिति सादृश्यनिबन्धनप्रत्यभिज्ञानान्तरेण बाध्यमानत्वादप्रमाणं प्रसिद्धम् । न पुनः सादृश्यप्रत्यवमार्श । तत्त्वस्याऽबाध्यमानतया प्रमाणत्वसिद्धेः । न चैकत्रैकत्वपरामर्शिप्रत्यभिज्ञानस्य मिथ्यात्वदर्शनात्सर्वत्राऽस्य मिथ्यात्वम् । प्रत्यक्षस्यापि सर्वत्र भ्रान्तत्वानुषङ्गान्न किञ्चित्कुतश्चित्कस्यचित्प्र
२५
કચ્છ
" Aho Shrut Gyanam"