________________
परि. ३ सू.६] स्याद्वादरत्नाकरसहितः "भिज्ञानरूपस्य किमायातम् । येनास्य विरुद्धधर्माध्यासाद्भेदः प्रायेंत। धर्माणां हि. परस्परपरिहारस्थितिलक्षणविरोधसम्भवे तेषामेवान्योन्य भेदो युक्तः । चित्रविज्ञानाकारवत् । किं च विरुद्धाभ्यां दर्शनस्मरणाकाराभ्यां कारणभूताभ्यां स्वभावभूताभ्यां वा प्रत्यभिज्ञानस्य भेदः साध्येत । तत्राद्यपक्षे सिद्धसाध्यता दोषः । न खलु कारणस्वरूपमेव . ५ सर्वथा कार्यस्वरूपमित्यनेकान्तवादिनः प्रतिजानते । द्वितीयपक्षेऽपि कथञ्चित्तद्भेदः साध्येत सर्वथा वा । यदि कथञ्चित्, तदा सिद्धा साध्यतैव । आकारतद्वतोः कथञ्चिद्भेदाभ्युपगमानैः । भेदस्वनुपपन्नः, तयोस्तत्स्वभावत्वाभावप्रसङ्गात्। यो यस्य स्वभावो न तस्य तद्वतः सर्वथा भेदः । यथा चित्रज्ञानान्नीलाद्याकाराणाम् । स्वभावश्च प्रत्यभि- १० ज्ञानस्य स एवायमित्याकारद्वयमिति । प्रत्यभिज्ञानं हि दर्शनस्मरणलक्षणस्वसामग्रीतः समुत्पद्यमानमङ्गीकृताकारद्वयमेव समुपजायते । चित्रपटादिसामग्रीतश्चित्राकारकज्ञानवत् । अभ्युपगम्य च स्वभावभूताकारद्वयस्य स्पष्टत्वास्पष्टत्वाभ्यां विरुद्धधर्माध्यासत्वमेतदुक्तम् । यावता प्रत्यभिज्ञाने स्पष्टत्वास्पष्टत्वे एव न विद्यते । अस्पष्टस्वरूप. १५ स्यैवास्य स्वसामग्रीतः समुत्पादात् । यदप्युक्तं स एवायमित्याकारद्वयं, तत्र किं परस्परानुप्रवेशेन प्रतिभातीत्यादि, तत्र कोऽयमस्य, परस्परानुप्रवेशो नाम । परस्पररूपसाङ्कर्यमेकस्मिन्नाधारे धृतिर्वा । नाद्यः पक्षः श्रेयान् । प्रतीतिविरोधात् । न हि यथोक्तमाकारद्वयमन्योन्यसकीर्णस्वरूपं स्वमेऽपि प्रतीयते । द्वितीयपक्षे पुनर्न किंचिदनिष्टम् । २० एकस्मिन्प्रत्यभिज्ञाने तदाकारद्वयस्य निर्बाधमनुभूयमानत्वात् । कथं वैववादिनः सौगतस्य चित्रज्ञानमपि सिध्येत् । नीलादिप्रतिभासानां हि परस्परानुप्रवेशे सर्वेषामेकरूपताप्रसङ्गात्कुतश्चित्रत्वम् , एकनीलाकारज्ञानवत् । तेषां परस्पराननुप्रवेशे वा भिन्नसन्ततिनीलादिप्रतिभासानामिवात्यन्तभेदसिद्धेर्नितरामचित्रत्वम् । एकज्ञानाधिकरणतया २५ तेषां प्रत्यक्षतः प्रतीतेः प्रतिपादितदोषानवकाशः प्रत्यभिज्ञानेऽप्यवि
"Aho Shrut Gyanam"