________________
प्रमाणनयतत्त्वालोकालङ्कारः (परि. ३ स्. ६ हि विषयः पूर्वज्ञाने प्रतिभातमेव वस्तु तदतिरिक्तं वा । तत्राद्यपक्षे न तत्प्रमाणम् । गृहीतग्राहित्वात्, धारावाहिज्ञानवत् । द्वितीयपक्षेऽपि किं कृतस्तस्यातिरेकः किं स्वरूपभेदकृतः कालद्वयसम्बन्धैक्यप्रतिपत्ति
कृतो वा । यदि स्वरूपभेदकृतः, तदा ज्ञानवज्ज्ञेयस्यापि प्रतिक्षणं ५ स्वरूपभेदप्रसिद्धेः शौद्धोदनिमतानुप्रवेशः । अथ कालद्वयसम्बन्धिदेव
दत्तस्यैक्यं प्रतीयते । अतस्तत्पत्तिपत्तिकृतोऽतिरेक इति चेत् । तदपि वाङ्गमात्रम् । यतः किमिदमैक्यं नाम, एकत्वसंख्या स्थायित्वं वा । योकत्वसंख्या, तदाऽस्याः पूर्वमेव प्रतिपन्नत्वात्कथमाधिक्यपरिच्छेदः
प्रत्यभिज्ञानेन । अथ स्थायित्वम् । तत्किं देवदत्तस्वरूपाद्भिन्नमभिन्न १० वा । यद्यभिन्नम् , तदा तत्स्वरूपवत्तदपि पूर्वज्ञानेनैव प्रतिपन्न मिति
तद्विषयत्वे प्रत्यभिज्ञानस्य तदवस्थ एव गृहीतग्राहित्वेनाप्रामाण्यलक्षणो दोषः । अथ भिन्न स्थायित्वम् , तरिक पूर्वमप्युत्पन्नमथ प्रत्यभिज्ञानसमय एवोत्पद्यते । यदि पूर्वमप्युत्पन्नम् , तदा पूर्वज्ञानेनैवास्य परि
च्छेदात्कथं प्रत्यभिज्ञानाधिक्यपरिच्छेदः । अथ प्रत्यभिज्ञानसमय १५ एवोत्पद्यते । तर्हि तस्य पूर्वमप्रतिपन्नत्वात्कथं प्रत्यभिज्ञानविषयत्वम् ।
पूर्व प्रतिपन्नस्यार्थस्य पुनः कालान्तरे गृह्यमाणस्य प्रत्यभिज्ञानविषयत्वाभ्युपगमात् । पूर्वज्ञानाप्रतिपन्नार्थान्तरावबोधकज्ञानस्य प्रत्यभिज्ञानत्वे च घटज्ञानानन्तराविर्भूतपटज्ञानस्यापि तत्त्वप्रसङ्गः । प्रत्यभिज्ञान
समय एवावस्थायित्वस्योत्पत्तौ च क्षणिकत्वानुषङ्गात्कथं तद्विशिष्टार्था२० नामक्षणिकत्वं स्यादिति ।।
तस्मादित्थमभावाद्यद्वा सत्त्वेऽपि गोचराभावात् ।। प्रामाण्यधुरन्धरेण न धुरीणं प्रत्यभिज्ञानम् ॥ ४५८ ॥ हन्त सौगत यथैव विष्टपे विश्रुतस्त्वमसि पश्यतोहरः ।।
अस्ति कश्चन तथैव कोविदस्त्वद्विनिग्रह विनोददुर्धरः ॥४५९।। २५ तथा हि यत्तावदुक्तं विरुद्धधर्माध्यासत इत्यादि । तत्र यदि
नाम दर्शनस्मरणलक्षणयोराकारयोविरोधः । तथापि धर्मिणः प्रत्य
"Aho Shrut Gyanam"