________________
परि. ३ सू. ६]
स्याद्वादरत्नाकरसहितः!
विज्ञानस्य प्रत्यभिज्ञाननाम्नः प्रत्यभिज्ञानमस्वीकुर्वतो
सम्यग्युक्त्या नास्ति सत्तैव तावत् ।। बौद्धस्य पूर्वपक्षमुपाय सत्खण्डनम् । या त्वस्यैषा मानतावर्णना सा
वान्ध्येयस्योदप्रशृङ्गारभङ्गिः ॥ ४१७ ॥ तथा हि, विरुद्धधर्माध्यिासतः कारणाभावाञ्च प्रत्यभिज्ञानस्य ५ स्वरूपमेव न सम्भवति । तत्कथं तस्य प्रामाण्यं प्रतिपादयितुमुचितम् । पूर्वं हि ज्ञातस्य पुनः कालान्तरे स एवायमित्यादि ज्ञानं प्रत्यभिज्ञानम् । न चाम्यैकत्वमुपपन्नम् । विरुद्धधर्माध्यासात् । यत्र हि विरुद्धधर्माध्यासो न तत्रैक्यम् । यथा जलानलादौ । विरुद्धधर्माध्यासश्च प्रत्यभिज्ञान इति । न चायमसिद्धः स्पष्टाम्पष्टरूपाक्रान्ततया प्रत्याभ- १० ज्ञाने विरुद्धधर्माध्यासस्य प्रसिद्धः । तथा हि, स इत्युल्लेखः प्रत्यभिज्ञाने स्मरणरूपत्वेनास्पष्टः । अयमित्युल्लेखश्च प्रत्यक्षरूपत्वेन स्पष्टः । न चास्पष्टेतरलक्षणविरुद्धधर्मलक्षणविरुद्धधर्माध्यासेऽप्यभेदो युक्तः । प्रत्यक्षानुमानयोरप्यभेदप्रसक्तेः । किं च , स एवायमित्याकारद्वयं, तत्र किं परस्परानुप्रवेशेन प्रतिभात्यननुप्रवेशेन वा । प्रथमपक्षेऽ- १५ न्यतराकारस्यैव प्रतिभास: स्यात् । द्वितीयाकारस्य तत्रानुप्रवेशेन तस्मादविविक्तत्वात् । द्वितीयपक्षे तु परम्परविविक्तप्रतिभासद्वयप्रसङ्गः । अन्योन्याननुप्रवेशेनाकारद्वयस्यावस्थानात् । न च प्रतिभासद्वयम् । एकाधिकरणत्वप्रसक्तेस्तु पुरुषाद्वैतसिद्धिः स्यात् । ततो विरुद्धधर्माध्यासान्नैकमिदं ज्ञानमभ्युपगन्तव्यम् । ततः कथं २० प्रत्यभिज्ञानस्य सम्भवः । कारणाभावाच्च न तत्सम्भवति । तथा हि, प्रत्यभिज्ञानस्य कारणं किमिन्द्रियमुत पूर्वानुभवजनितः संस्कारस्तदुभयं वा । न तावदिन्द्रियम् । तस्य वर्तमानार्थावभासजनकत्वात्। नापि संस्कारः । तस्य स्मरणकारणत्वात् । नाप्युभयम् । उभयदोषानुषङ्गात् । न च कारणान्तरमस्योपलभ्यते । तन्न प्रत्यभिज्ञानं स्वरूपतः सम्भ- २५ वति । सम्भवतु वा, तथापि न तत्प्रमाणम् । विषयाभावात् । तस्य
"Aho Shrut Gyanam"