________________
४९०
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ३सू. ६
आताम्रचञ्चुचरणं सवलक्षपक्षं
क्षीराम्बुसङ्करविवेककलाप्रगल्भम् ।। मञ्जीरम परिसञ्जितमन्दनादं ___ जानीहि मन्थरगतिं बत राजहंसम् ।। ४५२ ॥ यो मञ्जु मञ्जु परिगुञ्जति मञ्जरीणां ___ किञ्जल्कपुञ्जरजसा कपिशीकृताङ्गः ।। नीलीतमालदलकजलकालकान्तिः
घर्भिवेन्मधुकरश्चरणैः स नूनम् ॥ ४५३ ।। या खिद्यते प्रतिपदं स्वनितम्बभारात्
त्रस्तकहायनकुरङ्गविलोलनेत्रा ॥ उत्तुङ्गपीनकुचकुम्भनिरङ्कुशां तां
सीमन्तिनीं युवतिरित्युपवर्णयन्ति ॥ ४५४ ॥ यद्योम संरचयति स्फुरदिन्द्रचाप
रोचिष्णु चित्ररचनारुचिरं समन्तात् ॥ विस्तारिणा स्वकिरणप्रसरेण पञ्च
वर्णेन तद्भवति मेचकमत्र रत्नम् ।। ४५५ ॥ ताम्राणि यस्य विलसन्ति सुपल्लवानि
चुम्बन्ति चारुकुसुमानि च चञ्चरीकाः ॥ वाचालितं विपुलकोकिलकाकलीभि
बुंध्यस्व हन्त सहकारमहीरहं तम् ।। ४५६ ॥ इत्येवमादिशब्दश्रवणादाहितसंस्कारविशेषः, प्रतिपत्ता तथाविधानेक शरभसिंहादीनवलोक्य तथा सत्यापयति यदा तदा तत्संकलनमफि प्रत्यभिज्ञानोदाहरणमादर्शितं मन्तव्यम् ।
अंबाह शाक्य:----
"Aho Shrut Gyanam"