________________
परि. ४ सू. ४५]
रत्नाकरावतारिकासहितः
७२३
प्राधान्येन भेदगुणभावेन च प्रागुक्तः संबन्धः, भेदप्राधान्येनाऽभेदगुणभावेन चैष संसर्ग इति । य एवास्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः, स एव शेषानन्तधर्मात्मकस्याऽपति शब्देनाभेदवृत्तिः ८ । पर्यायार्थिकगुणभावे द्रव्यार्थिकनयप्राधान्यादुपपद्यते । द्रव्यार्थिकगुणभावेन पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः संभवति, समकालमेकत्र नानागुणानामसंभवात्, संभवे वा ५ तदाश्रयस्य तावद्वा भेदप्रसङ्गात् १ । नानागुणानां संबन्धिन आत्मरूपस्य च भिन्नत्वात्, आत्मरूपाभेदे तेषां भेदस्य विरोधात् २ । स्वानयस्याऽयस्यापि नानास्वात्, अन्यथा नानागुणाश्रयत्वविरोधात् ३ । सेबन्धस्य च संबन्धिभेदेन भेददर्शनात्, नानासंबन्धिभिरेककसंबन्धाघटनात् ४ । तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्याऽनेकत्वात्, अनेकैरुपकारिभिः क्रियमाणस्योपकारस्यैकस्य विरो. १० धात् ५। गुणिदेशस्य च प्रतिगुणं भेदात्, तभेदे भिन्नार्थगुणानामपि गुणिदेशाभेदप्रसङ्गात् ६ । संसर्गस्य च प्रतिसंसर्गिभेदात्, तदभेदे संसर्गिभेदविरोधात् ७ । शब्दस्य च प्रतिविषयं नानात्वात्, सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यलापत्तेः शब्दांन्तरवैफल्यापत्तेः ८ । तत्त्वतोऽस्तित्वादीनामेकत्र वस्तुन्येवमभेदवृत्तेरसंभवे कालादिभिर्भिन्नात्मनामभेदोपचारः क्रियते । तदे. १५ ताभ्यामभेदवृत्त्यभेदोपचाराभ्यां कृत्वा प्रमाणप्रतिपन्नानन्तधर्मात्मकस्य वस्तुनः समसमयं यदभिधायकं वाक्यं स सकलादेशः प्रमाणवाक्यापरपर्याय इति स्थितम् ।
" कालात्मरूपसंबन्धाः संसर्गोपक्रिये तथा । गुणिदेशार्थशब्दाश्चेत्यष्टौ कालादयः स्मृताः” ॥१॥४४॥ अधुना नयवाक्यस्वभावत्वेन नयविचारावसरलक्षणीयस्वरूपमपि विकलादेशं २० सकलादेशस्वरूपनिरूपणप्रसङ्गेना त्रैव लक्षयन्ति---
तद्विपरीतस्तु विकलादेशः ॥ ४५ ॥ . नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्यानेदोपचाराद्वा क्रमेण यदभिधायकं वाक्यम् , स विकलादेशः । एतदुल्लेखस्तु नयस्वरूपानभिज्ञश्रोतृणा दुरवगाह इति नयविचारावसर एव प्रदर्शयिष्यते ॥ ४५ ॥ प्रमाणं निर्गीयाथ यतः कारणात्प्रतिनियतमयमेतद्व्यवस्थापयति, तत्कथयन्तितत् द्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेषस्वरूप
सामर्थ्यतः प्रतिनियतमर्थमवद्योतयति ।। ४६ ॥ प्रत्यक्षपरोक्षरूपतया द्विप्रकारमपि प्रागुषवर्णितस्वरूपं प्रमाणं स्वीयज्ञानावरणायदृष्टविशेषक्षयक्षयोपशमलक्षणं योग्यतावशात्प्रतिनियतं नीलादिकमर्थ व्यव- ३० स्थापयति ।। ४६ ॥
एतद्यवच्छेद्यमाचक्षते -
"Aho Shrut Gyanam"