________________
७२४
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. ४७ न तदुत्पत्तितदाकारताभ्यां, तयोः पार्थक्येन सामस्त्येन च व्यभि
चारोपलम्भात् ॥ ४॥ तया हि-शानस्य तदुःपत्तितदाकारताभ्यां व्यस्ताभ्यां समस्ताभ्यां वा प्रतिनियतार्थव्यवस्थापकत्वं स्यात् । यदि प्राच्यः पक्षः, तदा कपालक्षण: कलशान्त्यक्षणस्य व्यवस्थापकः स्यात्, तदुत्पत्तेः केवलायाः सद्भावात् । स्तम्भः स्तम्भान्तरस्य च व्यवस्थाश्कः स्यात् , तदाकारतायास्तदुत्पत्तिरहितायाः संभवात् । अथ द्वितीयः, तदा कलशस्योत्तरक्षणः पूर्वक्षणस्य व्यवस्थापको भवेत्, समुदितयोस्तदुत्पत्तितदाकारतयोर्विद्यमानत्वात् । अथ विद्यमानयोरप्यनयोज्ञानमेवार्थस्य व्यवस्थापकम्; नाऽयः, तस्य जडत्वादिति मतम् । तदपि न न्यायानुगतम् , समानार्थसमनन्तरप्रत्ययोत्पन्नज्ञानयभिचारात् । तानि हि यथो कार्थव्यवस्थापकत्वलक्षणस्य समग्रस्य सद्भावेऽपि प्राच्यं जनकज्ञानक्षणं न गृहन्ति । अपि च किमिदमा कारत्वं वेदनानां ? यवशात्प्रतिनियतार्थपरिच्छेद: स्यात् । किम
काराग्लेखित्वम् , अाकारधारित्वं वा । प्रथमप्रकारे, अर्धा कारोल्लेखोऽयकारपरिच्छेद एव, ततश्च ज्ञान प्रतिनियतार्थपरिच्छेदात्प्रतिनियतमर्थभवद्योतयतीति साध्याविशिष्टत्वं स्पष्टयपढौकते । द्वितीयप्रकारे पुनराकारधारित्वं ज्ञानस्य सर्वात्मना देशेन वा । प्रथमपक्षे, जडत्वादर्थस्य ज्ञानमपि जडं भवेत्, उत्तरार्थक्षणवत् । प्रमाणरूपत्वाभावश्चोत्तरार्थक्षणवदेवाऽस्य प्रसज्येत, सर्वात्मना प्रमेय. रूपतानुकरणात् । अय देशेन नीलत्वादिनाऽ कारचारित्वमिष्यते ज्ञानस्य, तहि तेनाऽजडाकारेण जडताप्रतिपत्तरसंभवात्कथं तद्विशिष्टत्वमर्थस्य प्रतीयेत? । न हि रूपज्ञानेनाऽप्रतिपन्नरसेन तद्विशिष्टता सहकार कलादौ प्रतीयते । किंच देशेनाकारधारित्वान्नीलार्थवनिःशेषार्थानामपि ज्ञानेन ग्रहणात्तिः, सत्त्वादिमात्रेण तस्य सर्वत्रा कारधारित्वाविशेषात् । अथ तदविशेषेऽपि नीलाछाकारवैलक्षण्यानिखिलानामग्रहणम् , तहि समानाकाराणां समस्तानां ग्रहणपतिः ।
अथ यत एव ज्ञानमुत्पद्यते, तस्यैवाऽकारानुकरणद्वारेण ग्राहकम् , हन्त ! एवमपि २५ समानार्थसमनन्तरप्रत्ययस्य तद्ग्राहकं स्यादित्युक्तम् । ततो न तदुत्पत्तितदाकार
ताभ्यां ज्ञानस्य प्रतिनियतार्थावभासः । किंतु प्रतिबन्धकापगमविशेषादिति सिद्धम् ॥ ४५ ॥ इति प्रमाणनयतत्त्वालोकालङ्कारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायामागमस्वरूपनिर्णयो
नाम चतुर्थः परिच्छेदः ॥ ४ ॥
"Aho Shrut Gyanam"