________________
७२२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ४२ संदेहस्याऽपि सप्तधात्वे कारणमाहुःतस्याऽपि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यै
वोपपत्तेः ॥ ४२ ॥ तस्य प्रतिपाद्यगतसन्देहस्य । स्वगोचरवस्तुधर्माणां सन्देहविषयीकृतानामस्तित्वादिवस्तुपर्यायाणाम् ॥ ४२ ॥
इयं सप्तभङ्गी किं सकलादेशस्वरूपा विकलादेशस्वरूपा वेत्यारेका पराकुर्वन्तिइयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च
॥४३॥ एकको भङ्गोऽस्याः संबन्धी सकलादेशस्वभावः विकलादेशस्वभावश्चेत्यर्थः॥४३॥
अथ सकलादेशं लक्षयन्तिप्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्या
दभेदोपचाराद्वा योगपद्येन प्रतिपादकं वचः सकलादेशः ॥ ४४ ॥ - कालादिभिरष्टाभिः कृत्वा यदभेदवृत्तेधर्मधर्मिणोरपृथग्भावस्य प्राधान्यं तस्मात्,
कालादिभिर्भिन्नात्मनामपि धर्मधर्मिणामभेदाध्यारोपाद्वा समकालमभिधायक १५ वाक्यं सकलादेशः प्रमाणवाक्यमित्यर्थः । अयमर्थः-योगपद्येनाऽशेषधात्मक
वस्तु कालादिभिरभेदवृत्त्या, अभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचारात् , भेदप्राधान्याद्वा तदभिधत्ते, तस्य नयायत्तत्वात् । कः पुनः क्रमः ? किं वा यौगपद्यम् ? । यदाऽस्तित्वादिधर्माणां कालादिभिभेदविवक्षा, तदैकस्य शब्दस्याऽनेकार्थप्रत्यायने शक्त्यभावाकमः; यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते, तदैकेनाऽपि शब्देनकधर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्याऽनेकाशेषरूपस्य वस्तुनः प्रतिपादनसंभवाद्योगपद्यम् । के पुनः कालादयः । । काल:, आत्मरूपं, अर्थः, संबन्धः, उपकारः, गुणिदेशः, संसर्ग:, शब्दः, इत्यष्टौ । तत्र स्याज्जीवादि वस्त्वस्त्येवत्यत्र
यत्कालमस्तित्वं तत्काला: शेषानन्तधर्मा वस्तुन्येकत्रेति तेषां कालेनाभेदवृत्तिः । २५ यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपम्,तदेव चान्यानन्तगुणानामपीत्यात्मरूपेणाऽ.
भेदवृत्तिः २ । य एव चाधारोऽयों द्रव्याख्योऽस्तित्वस्य, स एवाऽन्यपर्यायाणामित्यर्थेनाभेदवृत्तिः ३ । य एव चाऽविष्वग्भावः कथञ्चित्तादात्म्यलक्षण: संबन्धोऽस्तित्वस्य, स एवाऽशेषविशेषाणामिति संबन्धेनाभेदकृत्तिः ४ । य एव चोपकारोऽस्ति
स्वेन स्वानुरक्तत्वकरणम्, स एव शेषैरपि गुणैरित्युपकारेणाभेदवृत्तिः ५ । य एव ३० गुणिनः संबन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य, स एवाऽन्यगुणानामिति गुणिदेशेनाऽ
मेदवृत्तिः ६ । य एव चैकवस्त्वात्मनाऽस्त्वित्वस्य संसर्गः, स एवाऽशेषधर्माणामिति संसर्गेणाऽभेदवृत्तिः। ननु प्रागुकसंबन्धादस्य का प्रतिविशेषः । उच्यते । अभेद
२०
"Aho Shrut Gyanam"