________________
७१८
यदुक्तम् —
प्रमाणनयतत्त्वालोकालङ्कारः
""
सोऽत्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्राऽथस्प्रतीयते ।
यथैवकारो योगादिव्यवच्छेदप्रयोजनः " ॥ १ ॥ १५ ॥
अथ द्वितीयमङ्गोल्लेखं ख्यापयन्ति -
[ परि. ४ सू. १५
स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः ॥ १६ ॥ स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽपत्त्रानिष्टौ हि प्रतिनियतस्वरूपाभावाद्वस्तुप्रतिनियमविरोधः । न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धमित्यभिधानीयम् । कथञ्चित्तस्य वस्तुनि युक्तिसिद्धत्वात्साधनवत् । न हि क्वचि दनित्यत्वादौ साध्ये सत्त्वादिसाधनस्याऽस्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नम्, १० तस्य साधनाभासत्वप्रसङ्गात् । अथ यदेव नियतं साध्यसद्भावेऽस्तित्वं तदेव साध्याभावे साधनस्य नास्तित्वमामेधीयते, तत्कथं प्रतिषेध्यम् ! स्वरूपस्य प्रतिषेधत्वानुपपत्तेः, साध्यसद्भावे नास्तित्वं तु यत्तत्प्रतिषेध्यम्, तेनाऽविनाभावित्वे साध्यसद्भावास्तित्वस्य व्याघातात्तेनैव स्वरूपेगाऽस्ति नास्ति चेति प्रतीत्यभावादिति चेत् । तदसत् । एवं हेतोस्त्रिरूपत्वविरोधात् । विपक्षासत्त्वस्य तात्त्विकस्याभावात् । यदि चायं भावाभावयोरेकत्वमाचक्षीत, तदा सर्वथा न क्वचित्प्रवर्तेत । नापि कुतश्चिनिवर्तेत | प्रवृत्तिनिवृत्तिविषयस्य भावस्याभावपरिहारेणासंभवात् । अभावस्य च भावपरिहारेणेति वस्तुनोऽस्तित्वनास्तित्वयो रूपान्तरत्वमेष्टव्यम् । तथा चास्तित्वं नास्तित्वेन प्रतिषेध्येना विनाभावि सिद्धम् । यथा च प्रतिषेध्यमस्ति - त्वस्य नास्तित्वं प्रधानभावतः क्रमार्पितोभयत्वादिधर्मपञ्चकमपि वक्ष्यमाणं २० लक्षणीयम् ॥ १६ ॥
१५
अथ तृतीर्थ भङ्गमुखतो व्यक्तीकुर्वन्ति
स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः
॥ १७ ॥
सर्वमिति पूर्वसूत्रादिहोत्तरत्र चाऽनुवर्तनीयम् । ततोऽयमर्थः । क्रमार्पितस्वपर२५ द्रव्यादिचतुष्टय/पेक्षया क्रमार्पिताभ्यामस्तित्वनास्तित्वाभ्यां विशेषितं सर्व कुम्भादि वस्तु स्यादस्त्येव स्यान्नास्त्येवेत्युले खेन वक्तव्यमिति ॥ १७ ।। इदानीं चतुर्थभोखमाविर्भावयन्ति -
स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः ॥ १८ ॥ द्वाभ्यामस्तित्वनास्तित्वाख्यवर्माभ्यां युगपत्प्रधानतयाऽर्पिताभ्यामेकस्य वस्तुनो३० ऽभिधित्सायां तादृश्यस्य शब्दस्य संभवादवक्तव्यं जीवादिवस्त्विति । तथा हियदसत्त्वगुणद्वयं युगपदेकत्र सदित्यभिधानेन तद्वक्तुमशक्यम् । तस्याऽसत्त्वप्रतिपादनासमर्थत्वात् । तथैवाऽसदित्यभिधानेन न तद्वक्तुं शक्यम् । तस्य सत्यप्रत्यायने
"Aho Shrut Gyanam"