________________
परि. ४ सू. १५]
रत्नाकरावतारिकासहितः
भज्यन्ते भिद्यन्तेऽर्था यैस्ते भङ्गा वचनप्रकाराम्ततः सप्तभनाः समाहृताः सप्तमगीति कथ्यते । नानावस्त्वाश्रयावधिनिषेधकल्पनया शतभङ्गीप्रसङ्गनिवर्तनार्थमेकत्र वस्तु. नीत्युपन्यस्तम् । एकत्राऽपि जीवादिवस्तुनि विधीयमाननिषिध्यमानानन्तधर्मपर्यालोचनयाऽनन्तभङ्गीप्रसक्तिव्यावर्तनार्थमेकैकधर्मपर्यनुयोगवशादित्युपात्तम् । अनन्ते. यपि हि धर्मेषु प्रतिधर्म पर्यनुयोगस्य सप्तधैव प्रवर्तमानत्वात् । तत्प्रतिवचन- ५ स्यापि सप्तविधत्वमेवोपपन्नमित्येककस्मिन्धौ एकैकेव सप्तभङ्गी साधीयसी । एवं चाऽनन्तधर्मापेक्षया सप्तमझोनामानन्त्यं यदायाति, तदभिमतमेव । एतच्चाऽने सूत्रत एवं निर्णेष्यते । प्रत्यक्षादिविरुद्धसदायकान्तविधिप्रतिषेधकलनयाऽपि प्रवृ. तस्य वचनप्रयोगस्य सप्तमङ्गीत्वानुषङ्गभङ्गार्थमविरोधेनेत्यभिहितम् । अवोचाम च
'या प्रश्नाद्विधिपर्युदासभिदया बाघच्युता सप्तधा धर्म धर्ममपेक्ष्य वाक्यरचनाऽनेकात्मके वस्तुनि । निदोषा निरदेशि देव ! भवता सा सप्तभङ्गी यया
जल्पन जल्परणाङ्गगे विजयते यादी विपक्ष क्षणात् ॥ १॥' इदं च सप्तभकोलक्षणं प्रमाणनयसप्तभङ्ग्योः साधारणमवधारणीयम् । विशेष. १५ लक्षणं पुनरनयोरप्रे वक्ष्यते ।। १४ ॥
अथाऽस्या प्रथममोल्लेखं तावदर्शयन्ति--- सद्यथा-स्यादस्त्येव सर्वमिति विधिविकल्पनया प्रथमो भङ्गः ॥१५॥
स्यादित्यव्ययमनेकान्तावद्योतकं स्यात्कथश्चित्स्वद्रव्यक्षेत्रकालभावरूपेणाऽस्त्येव सर्व कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण । तथा हि-कुम्भो द्रव्यतः पार्थि. २० वत्वेनाऽस्ति, न जलादिरूपत्वेन, क्षेत्रतः पाटलिपुत्रकत्वेन, न कान्यकुब्जादित्वेन । कालतः शशिरत्वेन, न वासन्तिकादित्वेन, भावतः श्यामत्वेन, न रकवादिना। अन्यथेत्तररूपापत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्र भङ्गेऽनभिमतार्थध्यावृत्त्यर्थमुपात्तम् । इतरथाऽनभिहिततुल्यतैबाऽस्य वाक्यस्य प्रसज्येत, प्रतिनियतखार्थानभिधानात् । तदुक्तम्
" वाक्येऽवधारणं तावदनिष्टायनिवृत्तये ।
कर्तव्यमन्यथाऽनुक्तसमत्वात्तस्य कुत्रचित् " ॥ १॥ तथाऽप्यस्त्येव कुम्भ इत्येतावन्मात्रीपादाने कुम्भस्य स्तम्भाधास्तत्वेनापि सर्वप्रकारेणाऽस्तित्वप्राप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात्, तत्प्रतिपत्तये स्यादिति ३० प्रयुज्यते, स्यात्कश्चित्स्वद्रव्यादिभिरेवाऽयमस्ति, न परद्रव्यादिभिरपीत्यर्थः । यत्रापि चाऽसौ न प्रयुज्यते तत्रापि व्यवच्छेदफ़लैवकारषद् बुद्धिमद्भिः प्रतीयत एव ।
"Aho Shrut Gyanam"