________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १२ स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्द इत्युक्तम् । अथ किमस्य शब्दस्य स्वाभाविक रूपं, किंच परापेक्षमिति विवेचयन्तिअर्थप्रकाशकत्वमस्य स्वाभाविक प्रदीपवद्यथार्थायथार्थत्वे पुनः
पुरुषगुणदोषावनुसरतः ॥ १२॥ ५ अर्थप्रकाशकत्वम्, अर्थावबोधसामर्थ्यम् । अस्य शब्दस्य । स्वाभाविकं परानपेक्षम् । प्रदीपवत् । यथा हि प्रदीपः प्रकाशमानः शुभमशुभं वा यथा सन्निहित भावमवभासयति, तथा शब्दोऽपि वक्त्रा प्रयुज्यमानः श्रुतिवर्तिनीमवतीर्णः सत्येऽनृते वा, समन्वितेऽसमन्विते वा, सफले निष्फले वा, सिद्धे साध्ये वा वस्तुनि प्रतिपत्ति
मुत्पादयतीति तावदेवास्य स्वाभाविक रूपम् । अयं पुनः प्रदीपाच्छब्दस्य विशेषः, १० यदसौ संकेतव्युत्पत्तिमपेक्षमाणः पदार्थप्रतीतिमुपजनयति, प्रदीपस्तु तन्निरपेक्षः ।
यथार्थत्वायथार्थत्वे सत्यार्थत्वासत्यार्थत्वे पुन : प्रतिपादकनराधिकरणशुद्धत्वाशुद्धत्वे अनुसरतः । पुरुषगुणदोषापेक्षे इत्यर्थः । तथा हि-सम्यग्दर्शिनि शुचौ पुरुषे वक्तरि यथार्या शाब्दी प्रतीतिरन्यथा तु मिच्याथेति । स्वाभाविक तु याथायें मिथ्या
थवे चाऽस्याः स्वीक्रियमाणे विप्रतारकेतरपुरुषप्रयुक्तवाक्येषु व्यमिचाराव्यभिचार१५ नियमो न भवेत् । पुरुषस्य च करुणादयो गुणा द्वेषादयो दोषाः प्रतीता एव । तत्र
यदि पुरुषगुणानां प्रामाण्यहेतुत्वं नाभिमन्यते जैमिनीयैः, ताई दोषाणामप्यप्रामाण्यानिमित्तता मा भूत् । दोषप्रशमनचरितार्था एव पुरुषगुणाः, प्रामाण्यहेतवस्तु न भवन्तीत्यत्र च कोशपानमेव शरणं श्रोत्रियाणामिति ॥ १२ ॥
इह यथैवान्तर्बहिर्वा भावराशिः स्वरूपमाबिभर्ति, तथैव तं शब्देन प्रकाशयता २० प्रयोक्तृणां प्रावीण्यमुपजायते । स च तथाभूतं सप्तभङ्गीसमनुगत एवं शब्दः प्रतिपादयितुं पटीयानित्याहु:सर्वत्राऽयं ध्वनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिधानः सप्तभङ्गी
मनुगच्छति ।। १३ ।। सदसन्नित्यानित्यादिसकलैकान्तपक्षविलक्षणानेकान्तात्मके वस्तुनि विधिनिषेध२५ विकल्पाभ्यां प्रवर्तमानः शब्दः सप्तभङ्गीमङ्गीकुर्वाण एव प्रवर्तत इति भावः ॥ १३॥
अथ सप्तभङ्गीमेव स्वरूपतो निरूपयन्ति--- एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा
वाक्प्रयोगः सप्तभङ्गी ॥ १४ ॥ ३० एकत्र जीवादी वस्तुन्यकैकसत्त्वादिधर्मविषयप्रश्नवशादविरोधेन प्रत्यक्षादि
बाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचना कृत्वा स्याच्छन्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तभङ्गी विज्ञेया।
"Aho Shrut Gyanam"