________________
७१५
परि. ४ सू. ११] स्याद्वादरत्नाकरसहित: एवं चाऽकृतसङ्केतत्वादित्येतस्य सुव्यक्तैवाऽसिद्धिः । ननु च शब्देनाऽर्थस्याऽभिधेयत्वे साक्षादेव ततोऽर्थप्रतिपत्तिसम्भवादिन्द्रियसंहतेवैयर्थ्यापत्तिरिति चेत् । मैवं वादीः । शब्दादर्थस्याऽस्पष्टाकारतया प्रतिपत्तिः स्पष्टाकारतया तु तत्प्रतिपत्त्यर्थमिन्द्रियसंहतिरप्युपपद्यत एवेति तस्याः कथं वैयपत्तिः । स्पष्टास्पष्टाकारतया प्रतिभासभेदश्च सामग्रीभे- ५ दान्न विरुध्यते । दूरासन्नार्थोपनिबद्धेन्द्रियप्रतिभासवत् । यथैव हि दूरासन्नदेशादिसामग्रीविशेषमाहात्म्यान्महीरुहमहीधरादेरविभिन्नस्यापि वि. भिन्नप्रतिभासगोचरत्वं तथा शाब्दप्रत्यक्षसंवेदनयोरभिन्नगोचरत्वेऽपि शब्देन्द्रियादिसामग्रीभेदादस्पष्टेतरप्रतिभासभेदो न विरोधधुरामधिरोहति। अथासत्यप्यर्थेऽतीतानागतादौ शब्दस्य प्रवृत्तेर्नाऽर्थाभिधायकत्वम् । १० तन्न साधीयः । अतीतानागतादेरिदानीमभावेऽपि स्वकाले भावात् । इतरथा प्रत्यक्षस्याऽप्यर्थविषयत्वबाधः स्यात् । तद्विषयस्यापि तत्काले मवद्दष्टया क्षणभङ्गुरत्वेनाऽभावान् । अविसंवादस्तु प्रमाणान्तरप्रवृत्तिल. क्षणः प्रत्यक्षवत्तत्राऽप्यनुभूयत एव । आसीहिरिहेत्याद्यतीतविषये शाब्दे विशिष्टभस्मादिकार्यदर्शनोद्भूतेनानुमानेन संवादोपलब्धेः । १५ कमलबन्धुकुमुदबान्धवोपरागाद्यनागतार्थविषये तु प्रत्यक्षप्रमाणेनैव संवाददर्शनात् । कचिद्विसंवादात्सर्वत्र शाब्दस्याऽप्रमाणतायां पुनः प्रत्यक्षस्याऽपि वचिद्विसंवादात्सर्वत्राऽप्रमाणताप्रसक्तिः । एवं च स्वलक्षणगोचरताङ्गीकारे चेत्यादि प्रत्यादिष्टम् । किं वाऽन्यदेवेन्द्रियग्राह्यम् .... .... .... .... .... .... .... || २०
१ एतदने यावत्परिच्छेदसमाप्ति स्याद्वादरत्नाकरग्रन्थो नोपलभ्यते कुत्रापि पुस्त. केषु । अतो द्वादशसूत्रमारभ्य रत्नाकरावतारिकासहितः सूत्रग्रन्थः प्रदीते सूक्ष्माक्षरैः। एकादशसूत्रेऽन्तिमभागे योऽर्थः स द्वादशसूत्रस्थावतरणेन ज्ञातुं शक्यः ।
"Aho Shrut Gyanam"