________________
७१४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. ११
अन्यापोहं संविहायाऽस्य तस्मात्
नान्यद्वाच्यं किंचिदास्थेयमत्र ॥ ५६८ ॥ इति निगदितमेतद्बुद्धशिष्यैः समस्त
निजमतमथ जैनास्तन्निराकर्तुमत्र । स्वसमयगतयुक्तीः प्रौढमानानुविद्धाः
सहृदयहृदयानां वल्लभाः कीर्तयन्ति ॥ ५६९ ॥ तथा हि-यत्तावदभिहितं शब्दस्य हि बहिःपदार्थों गोचरः स्वलक्षण इत्यादि तत्र स्वलक्षणमेव शब्दस्य गोचर इति नः पक्षः ।
यत्युनर्यः सङ्केतव्यवहारकालाननुगामीत्याद्यनुमानम् । तत्र हेतोरसिद्धिः । १० सामान्यविशेषवतोऽर्थस्य सङ्केतव्यवहारकालानुगामित्वेन प्रतीयमान
त्वात् । भवत्कल्पितस्य च स्वलक्षणस्य विषयविचारावसरे प्रपञ्चतः पराकरिष्यमाणत्वात् । एतेन यो यत्राकृतसङ्केतो न तमर्थं प्रतिपादयतीत्यादावपि प्रयोगे हेतोरसिद्धिः प्रतिपादिता द्रष्टव्या । सामान्यविशे
षात्मनि स्वलक्षणे सङ्केतस्य करणात् । न चाऽत्राइप्यानन्त्याद्वयक्तीनां १५ परस्पराननुगमाञ्च सङ्केतकरणानुपपत्तिः । समानपरिणामापेक्षया क्षयो
पशमविशेषाविर्भूतताख्यप्रमाणे व्यक्तीनां प्रतिभाससमानतया सङ्केतविषयत्वसम्भवात् । कथमन्यथानुमानमपि प्रवर्तेत । तत्राऽप्यानन्त्याननुगमरूपतया साध्यसाधनव्यक्तीनां सम्बन्धग्रहणासम्भवात् । अन्य
व्यावृत्त्या तत्र सम्बन्धग्रहणमिति त्वविशदम् । तस्या एव सदृशपरि२० णामान्यासम्भवेऽनुपपद्यमानत्वात् । न चासदंशेष्वप्यर्थेषु सामान्यवि
कल्पजनकेषु स्वदर्शनद्वारेण सदृशव्यवहारहेतुत्वमिति वाच्यम् । नीलादिविशेषाणामप्येवमभावप्रसक्तेः । यथा हि परमार्थतोऽसदृशा अपि तथाविधविकल्पोत्पादकदर्शनहेतवः सन्तः सदृशव्यवहारभाजो भावा
स्तथा स्वयमनीलादिस्वभावा अपि नीलादिविकल्पोत्पादकदर्शननिमि२५ ततया नीलादिषु व्यवहारभाक्त्वं प्रतिपत्स्यते । ततः सदृशपरिणामा
भावेऽर्थानां सजातीयेतरव्यवस्थाया असम्भवात्कुतः कस्य व्यावृत्तिः ।
"Aho Shrut Gyanam"