________________
पारे. ४ सू. ११] स्याद्वादरत्नाकरसहितः तत्त्वतो गृह्णतः प्रतिवादिनः प्रतीतिवदन्यापोहं स्वलक्षणमेव बाह्यमध्यवसायतो विषय इत्युच्यते , जात्याद्युपाधिराशिनिरसनपरम् । एवमन्यापोहो ज्ञानस्थ आन्तर आकारो भासतो विषय इति च प्रतिपाद्यते समस्तबाह्यनिरसनपरम् । न पुनरेतयोविषयतयोस्तत्त्वतो विश्रान्तिः । कुतः पुनरेतत्तत्र विषयताप्रतिपादनेऽपि न तत्त्ववृत्त्या तस्यास्तत्र वि- ५ श्रान्तिः, किन्त्वन्यनिरसने तात्पर्यमित्याह तत्त्वतो नैव कश्चिदिति । परमार्थतः शब्दस्य बाह्य आन्तरो वाऽर्थो न वाच्य इत्यर्थः । अध्यवसायसहायो हि प्रतिभासः सांव्यवहारिकापेक्षया तत्त्वतो ज्ञेयस्य ज्ञानविषयतामुपनयति प्रत्यक्षवत् । न हि प्रतिभासमात्रमवसायप्रतिहतव्यापार वा प्रवृत्तिकामस्य प्रमातृविषयव्यवस्थामर्थे क्षमते गच्छंस्तृण- १० स्पर्शवत् । मरीचिकास्तदुदकारोपवञ्च । मरीचिकाविषयो हि प्रतिभास उदकगोचरावसायाक्रान्तव्यापारत्वान्न तत्त्वतस्तद्विषयः । नाऽप्यवसायमात्रमपेतप्रतिभासं तस्य तां तस्मिन्क्षमते । उदकारोपादेवारोपिलोदकविषये अवसायः प्रतिभाससहायसम्पत्सम्पर्कशून्यत्वात्परमार्थतो निर्विषय एव । अत्र च स्वलक्षणलक्षणो बाह्योऽर्थः शब्दादध्यवसीयत १५ एव न प्रतिभासते । आन्तरस्तु बुद्धिप्रतिबिम्बापरनामा बुद्ध्याकाररूपोऽर्थः प्रतिभासत एव नाध्यवसीयते । ततोऽव्यवसायप्रतिभासरूशोभयस्य व्यापकस्य निवृत्त्या विषयत्वस्य व्याप्यस्य तत्र निवृत्तिरिति तत्त्वतो नैव कश्चिदित्यस्य तात्पर्य पर्यवसितं भवति । समग्रस्य चास्य वृत्तस्येदमर्थतत्त्वम् । कथमपोहः शब्दगम्यो भाववाचकेषु वाक्येष्विति २० प्रश्ने तद्गुणत्वेन यथोक्तार्थेनेत्युत्तरम् । यदा तु शब्दैः किं वाच्यमित्यनुयोगः । तदा किं प्रतिभासादथाऽध्यवसायाद्यद्वा तत्त्वत इति विधा विकल्प्य विकल्पस्थ आन्तरोन्यापोहाकारो, बाह्यमन्यापोहस्वलक्षणं, न किंचिदिति, त्रीणि प्रतिवचनानि क्रमेण प्रतिपाद्यानीति ।
इत्थं नाऽर्थस्तात्त्विकः कोऽपि बाह्यः
शब्दप्रामे दर्शयत्यात्मरूपम् ।
"Aho Shrut Gyanam"