________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ४ सु. १
चारिकी शब्दार्थना न विरुध्यते । परमार्थवृत्त्या तु न किंचिद्वाच्यं वाचकं वा समस्ति | मुख्यवृत्त्या शब्दार्थत्वेन कथिते बुद्धिप्रतिबिम्बात्मन्यव्यपोहे कार्यकारणभावस्यैव वाच्यवाचकतया व्यवस्थापितत्वात् । ज्ञानश्रीः पुनरपोहप्रकरण इदमुदीरयामास - " शब्दैस्ताव५ मुख्यमाख्यायते ऽर्थस्तत्रापोहस्तद्गुणत्वेन गम्यः । अर्थको ऽध्यासतो भासतोऽन्यः स्थाप्यो वाच्यस्तत्त्वतो नैव कश्चित् ||१||" इति मुख्यमिति आख्यायते इति क्रियाया विशेषणमेतत् । मुख्यया वृत्त्येत्यर्थः । अर्थ इति वक्ष्यमाणस्वरूपः । तत्राऽपोहस्तद्गुणत्वेन गम्य इति । न घटोऽस्तीत्यादिषु समुपहितेषु वाक्येष्वपोहस्यैव प्राधान्यतः १९ प्रतीतेर्बिम्बाद्यभावः । घटोऽस्तीत्यादिषु तु विधिवाक्येषु विधौ मुख्य तथा शब्दैः प्रतिपाद्यमाने तद्विशेषणतयोपसर्जनत्वेन गम्यतेऽपोहः । आख्यायतेऽर्थं इति सामान्येनोक्तं तद्विशेषतो व्यञ्जयन्नाह । अर्थकोऽध्यासतो मासतोऽन्यः स्थाप्यो वाच्य इति । द्विविधो ह्यर्थो बाह्य आभ्यन्तरश्च । अन्यस्याभावात् । तत्रैकस्तावद्वाह्यः स्वलक्षणलक्षणोsध्यासतो गृहीतोऽपि प्रवर्तनयोग्यतानिमित्तकाद्व्यवसायादेव वाच्यो व्यवस्थाप्यते न परिस्फुर्त्या | प्रत्यक्षचेतसीव देशकालादिनियतत्वेन परिस्फुटरूपतया शब्देषु तस्याऽस्फुरणात् । तथा भासतः प्रतिभासमपेक्ष्येत्यर्थः । अन्यो बाह्यदुक्तस्वरूपाद्भिन्न आन्तरो बुद्धयाकार इत्यर्थः शब्दजन्यायां बुद्धावाकारमात्रस्य प्रतिभासनात्स एव विषय उच्यते २० चक्षुष इव रूपम् । न पुनरध्यवसायात् । न हि बुद्धयाकारेऽप्यध्यवसाय: शक्योऽभिधातुम् | प्रवृत्तिविषये तस्य व्यवस्थापनात् । प्रवृत्तिश्वार्थक्रियार्थिनो बाह्य एव । एवं स्थितमेतत् । अध्यवसायेन बाह्यस्य प्रतिभासेन तु बुद्धयाकारस्य शब्दवाच्यत्वमिति । स्थाप्य इत्यस्य चेदमेवैदम्पर्यम् । जात्याद्युपाधिराशेर्बाह्यस्य च समस्तस्य वाच्यतानिर२५ सनरूपं प्रयोजनान्तरमुद्दिश्य व्यवस्थामात्रमेतत्क्रियतेऽध्यवसायमात्रेण च वाच्यत्वमिति । तथा हि जात्याद्युपाधिराशेः शब्दस्य विषयतया
१५
કાર
" Aho Shrut Gyanam"