________________
परि. ४ सू. ११] भीमाबारशासनिकमा केन्द्र ११ रूपमर्थप्रतिबिम्बस्वभावज्ञानमुत्पद्यसंधीनगरथपिहि, वस्तुभागच्छायो विकल्पेन बाह्यत्वेनाविकल्पाकारः स्वाकारविपरीताकारोन्मूलकबुद्धिप्रतिबिम्बनामाऽपोहः । अपोह्यते स्याकाराद्विपरीत आकारोऽनेनेत्यपोह इति व्युत्पत्तेः । यद्वा विकल्पान्तरवाकाराद्भेदेन स्वयं प्रतिभासमानत्वादपोह्यतेऽन्यस्मादित्यपोह इति व्युत्पत्तेः । अयं हि व्युत्पत्ति- ५ द्वयेऽपि मुख्यत एवाऽपोहशब्दाभिधेयो बुद्धिप्रतिबिम्बात्मा । एवं निगदितपदासात्मा द्विप्रकारोऽपोहः । प्रसज्यरूपस्तु गौरयमगौर्न भवतीति व्यवच्छेदमात्रम् । एतेषु च विष्वपोहेषु मध्ये बुद्धिप्रतिबिम्बारमन एवाऽपोहस्य मुख्यवृत्त्या शब्दार्थत्वम् । य एव हि शब्दोद्भवे प्रत्यये प्रतीयते स एव शब्दार्थतया स्त्रीकर्तुमुचितः । न चात्र प्रसज्य- १० प्रतिषेधावसायोऽस्ति । नाऽपीन्द्रियोत्थसंवेदनवत्स्वलक्षणावभासः । अपि तर्हि बाह्यार्थप्रतिबिम्बावभासः । अतस्तदेवाऽर्थप्रतिबिम्बकं शाब्दे चोधे साक्षात्तदात्मतया प्रतिभासनाच्छब्दार्थो युक्तो नत्वपरः । यश्च शब्दस्यार्थेन सार्धं वाच्यवाचकभावनामा सम्बन्धः प्रतीतो लोके नायं कार्यकारणभावादपरः । तथा हि, बुद्धिसम्बन्धिनः प्रतिबिम्बस्य शब्द- १५ जन्यत्वाद्वाच्यत्वं तज्जनकत्वाच शब्दस्य वाचकत्वमिति । गौणवृत्त्या तु पर्युदासप्रथमप्रकारस्य स्वलक्षणात्मनो व्यपोहस्य प्रसज्यापोहस्य तृतीयभेदस्य च निषेधमात्रस्य शब्दार्थत्वमवसेयम् । तथा हि-अस्ति शब्दस्य परम्परया स्वलक्षणेन सह कार्यकारणभावलक्षणः सम्बन्धः । प्रथमं हिं यथावस्थितवस्त्वनुभवः । ततो विवक्षा । ततस्ताल्वादि- २० परिस्पन्दनम् । ततः शब्द इत्येवं पारम्पर्येण यदा शब्दस्य बाह्येन वयादिस्वलक्षणेन सह सम्बन्धस्तदा विजातीयव्यावृत्तस्वलक्षणस्यापि सामर्थ्यात्प्रतिपत्तिर्भवतीति स्वलक्षणस्याप्युपचरितं शब्दार्थत्वं न विहन्यते । तथा गोशब्दादेः सकाशाद्यद्गत्वादिबुद्धिप्रतिबिम्बकमुत्पद्यते तत्तुरङ्गमादिशब्दसमुत्थबुद्धिप्रतिबिम्बस्वरूपाद्वयावृत्तस्वभावमनुभू- २५ यत इति प्रसज्यलक्षणापोहस्याप्यभिधानसामर्थ्यतः प्रतीयमानत्वादोप
"Aho Shrut Gyanam"