________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ४ सू. ११
-
१०
देशकालाकारसकुचितत्वेनाननुगामिस्वभावस्वात् । प्रयोगः यः सङ्केतव्यवहारकालाननुगामी न तत्र व्यवहारिभिः शब्दः सङ्केत्यते यथोत्पन्नमात्रविनाशिनि क्वचिद्भावे । सङ्केतव्यवहारकालाननुगामि च बाहुलेयादिस्वलक्षणमिति । अपि च यो यत्राऽकृतसङ्केतो न स तमर्थं ५ प्रतिपादयति यथा गोशब्दस्तुरङ्गमम् । अकृतसङ्केतश्च स्वलक्षणे समस्तशब्द इति । स्वलक्षणगोचरताङ्गीकारे च शाब्दज्ञानस्येन्द्रियोत्थज्ञानस्येव स्पष्टप्रतिभासत्वापतिः । न चैतदस्ति । प्रतीतिपराहतत्वात् । यथोक्तम्-“अन्यदेवेन्द्रियग्राह्यमन्यच्छन्दस्य गोचरः । शब्दात्प्रत्येति मित्राक्षो ननु प्रत्यक्षमीक्षते ॥ १ ॥ अन्यथैवाग्निसम्बन्धाद्दाहं दग्धोऽभिमन्यते । अन्यथा शब्दतस्तेन दाहार्थः सम्प्रतीयते ||२||" इति । न चैकस्य वस्तुनो रूपद्वयं सम्भवति । येनाऽस्पष्टं वस्तुगतमेव रूपं शाब्दज्ञाने प्रतिभासेत । एकस्य द्विस्वभावताविरोधात् । तथा यत्कृते ज्ञाने यन्न प्रतिभासते न तत्तस्य गोचरो यथा गन्धसमुत्थज्ञाने स्पर्शः । न प्रतिभासते च शाब्दज्ञाने स्वलक्षणमिति । यदि च १५ तात्त्विकार्थगोचरत्वं शब्दानां भवेत्तदा समयभेदेनाऽर्थमेद प्रत्यायकत्वायोगः । तदुक्तम् - "परमार्थैकतानले शब्दानामनिबन्धना । तस्मात्प्रवृत्तिरर्थेषु समयान्तरभेदिषु || १ || " इति । तन्न स्वलक्षणलक्षणः शब्दस्य गोचरो विचार वीथी मवगाहते । नापि सामान्यस्वभावः । तात्त्विकस्य सामान्यस्यैवायोगात् । तदयोगश्च व्योमकुसुमवदनर्थ२० क्रियाकारित्वात्सुप्रतीतः । न खलु नित्यैकस्वरूपस्य सामान्यस्य क्रमाक्रमाभ्यामर्थक्रियाकारित्वमुपपद्यते । तदेवं न बाह्यवस्तुनः प्रकाशकाः शब्दाः । किन्त्वन्यापोहस्य, निषेधः स च द्विविधः । पर्युदासः प्रसज्यश्च । पर्युदासोऽपि द्विविधोऽर्थात्मा बुद्धधात्मा च । तत्राऽर्थात्माऽर्थस्वभावो विजातीयव्यावृत्त सर्वस्वलक्षणम् । अपोह्यतेऽन्योऽस्मिन्नि२५ व्यपोह इति व्युत्पत्तेः । बुद्धयात्मा तु स्वभावतः परस्पर विलक्षणानर्थाकार्यकारितया समानहेतुत्वेन च समानानाश्रित्य यदेकप्रत्यवमर्श
७१०
" Aho Shrut Gyanam"
•