________________
परि. ४ सू. ११]
स्याद्वादरत्नाकरसहितः
पक्षस्यैव साक्षित्वेनोक्तः । स एवमेव । न खलु वयमपिं शक्तिपर्यन्तं सङ्केतमाचक्ष्महे । किंतु वाच्यवाचकयोः स्वाभाविक शक्तिमन्तरेण सङ्केत एव कर्तुमशक्यो व्यत्ययेनाऽपि तत्प्रसङ्गादिति व्याकुर्महे |
७०९
ततः स्वाभाविकी शक्तिर्वाचकत्वोपयोगिनी ||
सङ्केतमनुरुन्धाना शब्दे सम्बन्ध इष्यताम् || ५६६ ॥ मीमांसकास्त्वाहुः -- आस्तां स्वाभाविकी शक्तिः शब्दस्य सम्बन्धः । स तु नित्य एव । अनित्यत्वे तस्य शब्दार्थयोर्नित्यशक्तिरूपः संबन्ध इति मीमांस-व्यवहारकालाननुयायित्वेनाऽर्थप्रतिपत्त्यनङ्गत्वात्। कमतस्योपपाद्य खण्डनम्। तदयुक्तम् । अनित्यत्वेऽप्यस्य शब्दस्येव सादृश्य- १० बशादेवाऽर्थप्रतिपत्तिहेतुत्वोपपत्तेः । यथा च शब्दस्य सादृश्यवशादर्थप्रतीतिहेतुता तथा शब्दानित्यत्ववादे प्रतिपादितम् । नित्यत्वानुपपत्तेश्च । तथा हि- असौ नित्यः सत्स्वभावतोऽर्थं प्रकाशयेत्सङ्केताभिव्यक्तेर्वा । यदि स्वभावतः, तर्हि सर्वदा सर्वस्याऽर्थं तत्सम्बन्धः प्रकाशयेत् । अथ सङ्केतामिव्यक्तेः कथमेवमस्य नित्यैकरूपत्वमुपपन्नम् । व्यक्ताव्यक्त- १५ रूपतया भेदप्रसक्तेः । नित्यैकरूपं हि वस्तु यदि व्यक्तं तदा सर्वदा व्यक्तमेव, अथाऽव्यक्तमव्यक्तमेव तर्हि सर्वदा, तस्यैकस्वभावत्वादिति । अत्र भूयोऽपि प्रत्यवतिष्ठन्ते ताथागताः
2
कथं शब्दाद्वा मतिरुदयते बाघरहिता
तात्त्विकः कोऽपि बायोऽयाँ नास्तीति वादिनो न यस्माद्वाह्योऽर्थः कथमपि भवत्यस्य विषयः ॥ २० वौद्धस्य मतं विस्तरश उप-विशेषस्तावन्नो समयकरणासङ्गतिवशात् पाय तत्खण्डनम् | न सामान्यं तस्याऽसुरसरणिपुष्पप्रतिमितम् ५६७
तथा हि शब्दस्य बहि:पदार्थो गोचरः स्वलक्षणो भावः सामान्यस्वभावो वा । तत्र प्रथमकल्पना न साधीयसी । स्वलक्षणे सङ्केतासम्भवतः शब्दानां प्रवृत्तेरघटनात् । सङ्केतव्यवहारकालानुगामि- २५ स्वभावे सङ्केतः क्रियते । न च स्वलक्षणस्य तादृशः स्वभावः सम्भवति ।
४५
" Aho Shrut Gyanam"