________________
. श्रीकलाससागरसूरि ज्ञानमन्दिर
परि. ४ सू. २३ ]
सामथ्यभावात् । सोते को समर्थमित्यर्थम् । तस्यापि क्रमेणार्थद्रयप्रत्यायने सामथ्र्यपपत्तेः । शतृशानचौ सदिति शतृशानचोः सङ्केति - तसच्छब्दवत् । द्वन्द्ववृत्तिपदं तयोः सकृदभिधायकमित्यप्यनेनास्तम् । सदसत्त्वे इत्यादि पदस्य क्रमेण धर्मद्रयप्रत्यायने समर्थत्वात् । कर्मधारयादिवृत्तिपदमपि न तयोरभिधायकं तत एव वाक्यं तयोरभित्रायकमनेनैवापास्तमिति सकलवाचकरहितत्वादवक्तव्यं वस्तु युगपत्सदसत्वाभ्यां प्रधानभावार्पिताभ्यामाक्रान्तं व्यवतिष्ठते । अयं च भङ्गः कैश्चित्तृतीयभङ्गस्थाने पठ्यते, तृतीयश्चैतस्य स्थाने । न 'चैवमपि कञ्चिद्दोषः, अर्थविशेषस्याभावात् ॥ १८ ॥
अथ पञ्चम महोल्ले खमुन्दर्शयन्ति
स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेध- १० कल्पनया च पञ्चमः ॥ १९ ॥
स्वद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वं सत्यस्तित्वनास्तित्वाभ्यां सह वक्तुमशक्यं सर्वं वस्तु । ततः स्यादस्त्यैव स्यादवक्तव्यमेवेत्येवं पञ्चमभङ्गेनोपदश्त इति ॥ १९ ॥ अष्ठमङ्गोल्लेखं प्रकटयन्ति -
-
स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेध- १५ कल्पनया च षष्ठः ॥ २० ॥
परद्रव्यादिचतुष्टयापेक्षया नास्तित्वे सत्यस्तित्वनास्तित्वाभ्यां यौगपद्येनप्रतिपादयितुमशक्यं समस्तं वस्तु । ततः स्यान्नास्त्येव स्यादव तव्यमेवेत्येवं षष्ठभङ्गेन प्रकाश्यते ॥ २० ॥
सम्प्रति सप्तमभङ्गमुल्लिखन्ति
स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तम इति ॥ २१ ॥ इतिशब्दः सप्तभङ्गीसमाप्त्यर्थः । स्वपरद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वनास्तित्वयोः सतोरस्तित्वनास्तित्वाभ्यां समसमयमभिधातुमशक्यमखिलं वस्तु तत एवमनेन भङ्गेनोपदश्यते ॥ २१ ॥
अथास्यामेव सप्तभङ्ग्यामेकान्तविकल्पान्निराचिकीर्षवः सूत्राण्याहु:विधिप्रधान एव ध्वनिरिति न साधु ॥ २२ ॥
प्राधान्येन विविमेव शब्दोऽभिधत्ते इति न युक्तम् ॥ २२ ॥
हेतुमाहु:
७१९
निषेधस्य तस्मादप्रतिपत्तिप्रसक्तेः ।। २३ ।।
तस्मादिति शब्दात् ॥ २३ ॥
" Aho Shrut Gyanam"
Ta
३०