________________
७०६
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सु. ११ देवदत्तेनोक्तममुतः शब्दादमुमर्थं प्रतिपद्यस्वेत्येवं हि व्यपदिशति लोकः । तथा यन्त्र शृङ्गग्राहिकया शब्दमर्थं च निर्दिश्य सङ्केतः क्रियते तत्रेयन्तमेवाङ्गीक्रियमाणमीक्षामहे , अयमस्य वाचक इति । न तु शक्तिप
र्यन्तम् । यत्राऽपि वृद्धेभ्यो व्यवहरमाणेभ्यो व्युत्पद्यते बालस्तत्राऽपीय५ देवाऽसौ जानात्ययमोंऽमुतः शब्दादनेन प्रतिपन्न इति । न त्वन्याऽस्य
शक्तिः काचिदस्तीति । इयत्यैव च व्युत्पत्या शब्दादर्थप्रत्ययोपपत्तेरस्याश्चापरिहार्यत्वादधिककल्पनाबीजाभावात् । न स्वाभाविकः शब्दस्याऽर्थेन सम्बन्ध इति ।
गौतमीय परमार्थमत्र यत्त्वं सखे हरसि पश्यतोहरः ॥ १० श्रीजिनेश्वरमताधिकारिभिस्तन्न नाम कृतिभिस्तितिक्ष्यते ॥५६५॥
तथा हि यदवादि स्वरूपसहकारिव्यतिरिक्तेत्यादि । तदवद्यम् । अतीन्द्रियशक्तेरापत्तिविचारावसरे समर्थितत्वात् । यत्तुक्तं सङ्केतबलादेव तत्र तदुपपत्तेरिति । तदसत् । सङ्केतो हि पुरुषाधीनवृत्तिः । न च पुरुषेच्छया वस्तुनियमोऽवकल्प्यते । अन्यथा तदिच्छाया अव्याहतप्रस१५ रत्वादर्थोऽपि किमिति वाचको न भवति शब्दश्च वाच्यः । सुकरमेव
हीदं वक्तुमस्य शब्दस्याऽयमों वाचकोऽस्य चाऽर्थस्याऽयं शब्दो वाच्य इति । न चैवमस्ति । किंचेच्छया वस्तुनियमेऽनिच्छतः पुरुषस्य न धूमादपि वहेः प्रतीतिः स्यात् । इच्छतस्तु जलस्याऽपि ततः सा स्यात् ।
तत्र यथा धूमाग्न्योनैसर्गिक एवाऽविनाभावो नाम सम्बन्धस्तत्प्रतिपत्तये २० चोपलम्भादिकं निमित्तमाश्रीयते । एवं सांसिद्धिक एव शब्दार्थयोः
शक्त्यात्मा सम्बन्धस्तत्प्रतीतये सङ्केतसमाश्रयणम् । शक्त्यभावेऽपि शब्दस्यैव वाचकत्वे योग्यत्वान्न वाच्यवाचकमावानयत्यमिति चेत् । तर्हि किमिति कलहायसे । भवताऽपि योग्यत्वशब्देन शक्तेरेव स्वीका
रात् । अथ क्रमविशेषोपकृतो गत्वादियोग एव योग्यता शक्तिः । २५ गत्वौत्वादिसामान्यसम्बन्धो हि यस्य भवति स वाचकत्वे योग्य
इतरस्तु वाच्यत्वे । यथा द्रव्यत्वाविशेषेऽप्यग्नित्वादिसामान्यवत एव
"Aho Shrut Gyanam"