________________
परि. ४ सू. ११]
स्याद्वादरत्नाकरसहितः
संस्पर्शसद्भावस्य प्रमाणोपपन्नत्वात् । तथा हि शब्दोऽर्थेन सम्बद्धः प्रतिनियततत्प्रत्ययनिमित्तत्वाल्लोचनवत् । न च लोचनस्याप्यर्थेनासम्बन्ध इत्यभिधेयम् | योग्यतारूयसम्बन्धस्य तत्रोभाभ्यां प्रतिपन्नत्वात् । न चैवमप्राप्यकारित्वं बाध्यते । संयोगादेः सन्निकर्षस्याऽनभ्युपगमात् । तथा शाब्दो बोधः संबन्धनिबन्धनः प्रतिनियत - ५ बोधत्वात् दण्डीत्यादिवत् ।
इत्थं सम्बन्धो योग्यतानामधेयः
शब्दस्याऽर्थेन प्रोक्तयुक्त्या प्रसिद्धः ॥
तस्मात्तत्रातः सिद्धिराविर्भवन्ती
शाक्यैः शक्या नो सन्निरोद्धुं कथंचित् ॥ ५६३ ||
अत्राहुर्नैयायिकाः
७०५.
" Aho Shrut Gyanam"
१०.
सङ्केतमात्रसचिवाच्छब्दादर्थस्य भवति संवित्तिः ||
संकेतातिरिक्तं स्वाभाविकं
संबन्धमनभ्युपगच्छतो नै-स्वाभाविकोऽस्य तस्मात्संबन्धो नाभिधेयेन । ५६४ । यायिकस्य मतमुपपाद्य तथा हि- शक्तिरूपः स्वाभाविकः शब्दानां खण्डनम् । सम्बन्धोऽसम्बद्धः । स्वरूपसह कारिव्यतिरि- १५. क्तायास्तस्या असम्भवात् । न चार्थप्रत्ययान्यथानुपपत्त्या तत्कल्पना शब्दे श्रेयसी । सङ्केतबलादेव तत्र तदुपपत्तेः । किंच कल्पयित्वाऽपि स्वाभाविकसम्बन्धं तद्व्यञ्जकः सङ्केतस्त्वयाप्यङ्गीकृत एव । तदङ्गीकारे च तत एवार्थसिद्धेः कृतं तथाविधसम्बन्धपरिकल्पनेन । तत्परिकल्पने वा न कस्यचित्सङ्केतापेक्षा स्यात् । तन्मात्रैणैव शब्दस्यार्थप्रकाशक- २०त्वोपपत्तेः । न चैवमस्ति । सङ्केतमपास्य विपश्चितोऽपि शब्दादर्थप्रतीतेरनुत्पत्तेः । अपि च क्वचिद्देशविशेषे कश्चिच्छन्दो देशान्तरप्रसिद्धमर्थमुत्सृज्य ततोऽर्थान्तरे प्रयुज्यते । यथा चौरशब्दस्तस्करवचनो दाक्षिणात्यैरोदने । यथेच्छं च शब्दः पुत्रादिषु नियुज्यते । तच्छेदं समयपथाऽक्षुण्णमुपपद्यते । स्वाभाविकसम्बन्धसद्भावे चैकैकार्थनियतत्वमेव २५. सर्वशब्दानाम् । लौकिकोऽपि च व्यपदेश: सङ्केतपक्षसाक्षितामेव भजते ।
1
T