________________
७०४
प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सु. ११ दिवाक्याद्विपरीतज्ञानोत्पादप्रतीतेः शब्दस्यैष महिमा न वक्तृदोषाणामित्युच्यते । तदप्यसम्बद्धम् । आप्तैरेवंविधवाक्याप्रयुक्तेः । यत्पुनराप्तैस्तु तेषामप्रयोग इत्यादिना सन्दिग्धव्यतिरेकत्वमुक्तम्, तदपि न क्षोदक्षमम् ।
अनुच्चारितशब्देऽपि दोषवति पुंसि करसंज्ञादिना विपरीतप्रत्ययोत्पादनस्थ ५ दर्शनेन तस्य शब्दव्यभिचारात् । आप्तेऽनुच्चारितशब्दे तदनुत्पादनस्य श
ब्दाभावनिबन्धनत्वसन्देहाभावेन दोषाभावनिबन्धनत्वनिश्चितेर्व्यतिरेकनिर्णयाञ्च । न च हस्तसंज्ञादिना शब्दानुमानं ततो विपरीतप्रतीतिरित्यभिधेयम् । तथाप्रतीतेरभावात् । तरङ्गिणीतीरमनुसरन्ननासादितमोदकराशिः पुरुषः पुरुषमेवाधिक्षिपति दुरात्मना तेन विप्रतारितोऽस्मीति न शब्दम् । यत्पुनराप्तोऽपि कस्मैचिदेवमुपदिक्षतीत्याद्यभिहितम् । तत्र प्रतिषेधपरत्वेनाऽस्य यथार्थव । वाक्यैकदेशम्याऽपि ख़ुदाहरणविवक्षायामिति करणावच्छिन्नम्य शब्दपरत्वेनोपादानात् । प्रतिषेधैकवाक्यतया यथार्थतैव । अर्थपरत्वे तु प्रतिषेधेनैकवाक्यतैव न
म्यात् । तस्मादाप्तप्रणीतशब्दानामयथार्थत्वाभावान्न स्वतोऽर्थासंस्पर्शि१५ नः शब्दाः । किंतु पुरुषदोषवशादिति । अपि च विपर्ययज्ञानो
पत्तेर्यावद्भिः सह तद्भावभावित्वमवसीयते तावतां तत्र व्यावृत्तिः । विपर्ययज्ञानोत्पत्तिश्चात्र शब्दोच्चारणे सत्यप्यनाप्तमन्तरेण नोपलब्धेति शब्दवदनाप्ताभिप्रायस्यापि तत्र व्यापारः स्वीकरणीयः । किंच
लाचनादिवदर्थप्रकाशकत्वमानं शब्दस्य नैसर्गिक रूपम् । न तु २० यथार्थप्रकाशकत्वायथार्थप्रकाशकत्वे । तयोर्गुणदोषनिबन्धनत्वात् ।
सति हि नैर्मल्यादिगुणे चक्षुर्यथावद्वस्तु प्रकाशयति कामलादिदोषे तु सत्ययथावत् । एवं शब्दोऽपि वक्तृगुणदोषापेक्षः सत्येतररूपं प्रकाशयति । अत एव करशाखाशिखराधिकरणकरिशतवचसि बाध्यमाने
ऽपि पुनःपुनरुच्चार्यमाणे भवति तत्सद्भावसंशीतिः । प्रकाश२५ कत्वस्य शब्दस्वरूपस्य बाधकसहस्रौपढौकनेऽप्यविनाशात् । यदप्यजल्पि
विकल्पयोनयः शब्दा इत्यादि । तदप्यसत्यम् । शब्दानामर्थेन
"Aho Shrut Gyanam"