________________
परि. ४ सू. ११] स्याद्वादरत्नाकरसहितः ।
७०३ च तदिच्छया वस्तुव्यवस्थानमुपपन्नम् । अतिप्रसक्तः । ततोऽर्थोऽपि वाचकः शब्दोऽपि वाच्यः किं न भवेत् । पुरुषेच्छाया निरङ्कुशत्वादिति चेत् । तदप्यविचारितमनोहरम् । सङ्केतस्य सहजयोग्यतानिबन्धनत्वामधूमध्वजवत् । यथैव हि धूमपावकयोः स्वाभाविक एवाविनाभावः सम्बन्धस्तद्वयुत्पत्तये तु तर्कः समाश्रीयते । तथा शब्दार्थयोनैसर्गिक एव ५ वाच्यवाचकशक्तिस्वरूपसम्बन्धस्तव्युत्पत्तये तु सङ्केतः समाश्रीयते । ननु शब्दस्य नैसर्गिकी शक्तिः किमेकार्थप्रतिपादनेऽनेकार्थप्रतिपादुने वा ! यद्येकार्थप्रतिपादने । तदा सङ्केतकोटिभिरपि ततोऽर्थान्तरे प्रतीतिर्न भवेत् । धूमादनमिप्रतीतिवत् । अथाऽनेकार्थप्रतिपादने, तदा समसमयं शब्दादनेकार्थप्रतीतिप्रसक्तेः प्रतिनियते वस्तुनि १० प्रवृत्तिन प्रामोतीति चेत् । तदपि न निपुणनिरूपितम् । शब्दस्याने. कार्थप्रतिपादने नैसर्गिकशक्तिसद्भावेऽपि प्रतिनियतसङ्केतसामर्थ्यात्प्रति. नियतार्थप्रतिपादकत्वोपपत्तेः । एकस्यापि हि शब्दस्य देशादिभेदेन प्रतिनियतः सङ्केतोऽनुभूयते । यथा गूर्जरादौ चोरशब्दस्य तस्करे द्रविडादौ पुनरोदन इति । दृश्यते च सर्वत्र रूपप्रकाशने योग्यस्याऽपि १५ चक्षुषः प्रत्यासन्नतिमिरवशादसन्निहिते दूरतिमिरसामर्थ्याच्च सन्निहिते रूपे विशिष्टाञ्जनादिवशादन्धकारान्तरितेऽपि ज्ञानजनकत्वम् । काचकामलादिदूषणबलाच्च विवक्षितरूपाभावेऽपीति । ततो यथाऽनेकरूपप्रकाशनयोग्यस्याऽपि चक्षुषो दूरतिमिरादिप्रतिनियतसन्निहितरूपादिज्ञानजनकत्वम् । तथाऽनेकार्थप्रतिपादनयोग्यस्याऽपि शब्दस्य प्रतिनिय- २० तपदार्थप्रतिपादकत्वं यदि स्यात्तदा का नाम क्षतिः । यदप्यभिहितमर्थसंस्पर्शित्वाभावादित्यादि तदप्यनभिज्ञवचनम् । यतः किमाप्तनिगदितस्य शब्दस्याऽर्थीसस्पर्शित्वमुपपन्नं नाऽपरस्य । इतरथा तिमिरा'दिदोषकलुषितलोचनसमुद्भूतप्रत्यक्षस्याऽर्थासंस्पर्शित्योपलम्भाद्गुणवन्नयनसमुत्थप्रत्यक्षस्याऽपि तद्भवेत् । नाऽपि तृतीयः पक्षः । आप्तानाप्तप्रणीत. २५ शब्दव्यतिरिक्तस्य शब्दमात्रस्याऽसम्भवात् । अथाप्तप्रयुक्तात्करशाखा.
"Aho Shrut Gyanam"