________________
७०२
प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सू. ११ भिधानसम्बन्धसद्भावात् । तदभावे तयोर्योग्यताभिधानोऽपि सम्बन्धः कथमित्यप्यनभिधेयम् । नयनरूपयोः कचित्तदभावेऽपि तदुपलम्भात् । न खलु स्फीतालोककलितकलशरूपेण समं लोचनस्य तादात्म्यं तदुत्पत्तिर्वा शौद्धोदनितनयैरप्यङ्गीक्रियते । प्रतीतिविरोधापत्तेः । नापि ५ नेत्रस्य तादात्म्यादिसम्बन्धाभावे रूपसम्बन्धम्यानुपपत्तिः । श्रवणादीन्द्रियवत्तस्यापि रूपाप्रभासकत्वप्रसक्तेः । न च वाच्यं योग्यतातः शब्दस्यार्थवाचकत्वेऽर्थस्यापि शब्दवाचकत्वं किं न भवेदिति । प्रतिनियतशक्तिकत्वात्पदार्थानाम् । योग्यता हि शब्दार्थयोः प्रति
पाद्यप्रतिपादकशक्तिः । ज्ञानज्ञेययोप्यिज्ञापकशक्तिवत् । न च १० ज्ञानज्ञेययोः कार्यकारणभावात्स्वरूपप्रतिनियमो न पुनर्योग्यतात इत्य
भिधानीयम् । तयोः कार्यकारणभावसद्भावेऽपि योग्यतात एव स्वरूपप्रतिनियमोपपत्तेः । इतरथा ज्ञानमेव प्रकाशकं न तु ज्ञेयं ज्ञेयमेव च प्रकाश्यं न पुनर्ज्ञानमिति नियमस्याघटनात् । ननु योग्यतावशाच्छब्दो
यद्यर्थं प्रतिपादयति तदा भूमिगृहवर्धितोत्थितस्याऽपि पुंसः प्रतिपाद१५ यतु विशेषाभावादिति चेत् । तदप्यनुचितम् । सङ्केतसहायस्य स्वयो
ग्यतामाहात्म्यतः शब्दस्यार्थप्रतिपादकत्वप्रतिज्ञानात् । भूमिगृहवार्षितोत्थितं प्रति चाऽस्य स्वयोग्यतासद्भावेऽपि सङ्केतसहायकाभावान्नार्थप्रतिपादकत्वानुषङ्गः । सङ्केतो हीदमस्य वाच्यमिदं चास्य वाचकमित्येवं रूपो वाच्यवाचकयोविनियोगः । स यस्याऽस्ति तस्यैव शब्दः २० स्वार्थ प्रतिपादयति नाऽपरस्य । इतरथा धूमादिसाधनमपि तथाविधस्थानधिगतसम्बन्धस्य धूमध्वजादिसाध्यं प्रकाशयेत् । विशेषादर्शनात् । अविनाभावो हि साध्यावबोधे विधेये साधनस्य निबन्धनं स च सर्वदा सर्वं प्रत्यस्यास्तीति । अथ येनैव साध्यसाधनयोरविनाभावः
प्रतिपन्नस्तं प्रत्येव साधनं साध्यमबोधयतीत्यभिधीयते । तर्हि येनैव २५ शब्दार्थयोः सङ्केतः प्रतिपन्नस्तं प्रत्येव शब्दोऽर्थस्य वाचक इत्यभिधीय
ताम् । समानयोगक्षेमत्वात् । ननु सङ्केतः पुरुषेच्छामात्रनिर्मितः । न
"Aho Shrut Gyanam"