________________
७०१
पारे. ४ सू. ११] स्याद्वादरत्नाकरसहितः दिपुरुषस्यानुच्चारितशब्दस्येदशासत्यप्रत्ययोत्पादनसामर्थ्यासम्भवात् । असत्यपि हृदयकालुष्ये, आतैः प्रतिपादितान्धंगुल्यादिवाक्यानि तामुत्पादयन्त्येव । न चाप्ता नेदृशानि वाक्यानि प्रयुञ्जते प्रयुञ्जाना वा नाऽऽसाः स्युरिति चेत् । एतइप्यसुन्दरम् । एवमपि हि वक्तृदोषाणामयथार्थज्ञानोदयकारणत्वासिद्धिः । व्यतिरेकासिद्धेः । यदि हि वक्तृदोषाभावेऽमून्यपि वाक्यानि प्रतिपाद्येरन्न चाऽयथार्थान्प्रत्ययान्कुर्वीरस्तदा व्यतिरेकनिश्चयाद्वक्तदोषजत्वं शाब्दज्ञानस्य भवेत् । आप्तैस्तु तेषामप्रयोगे किं शब्दाभावादयथार्थज्ञानानुत्पत्तिराहोस्विदोषाभावादिति सन्दिग्धो व्यतिरेकः । शब्दे तु निश्चितः सत्स्वपि दोषेषु शब्दानुच्चारणे मिथ्याप्रत्ययम्यानुत्पादात् । न चाप्तत्वमीदृशवाक्यप्रतिपादकत्वेन १० विरुध्यते । एवंविधशब्दाभिधाने सत्यप्याशयदोषाभावतोऽनाप्तत्वस्याभावात् । तथा ह्याप्तोऽपि कस्मैचिदेवमुपदिशति न त्वयाऽननुभूतार्थं वचनं प्रतिपादनीयम् | यथा करशाखादिवाक्यम् । अतः शब्दस्यैवैष महिमा न वक्तदोषाणाम् । ततोऽर्थासंस्पर्शिनः शब्दा विकल्पमात्रायत्तेोत्पत्तयः सिद्धाः । तथा चाह-" विकल्पयोनयः शब्दा १५ विकल्पाः शब्दयोनयः ॥ तेषामन्योन्यसंबन्धो नार्थान् शब्दाः स्पृशन्त्यमी ॥१॥” इति ।। १० ।।
एतत्प्रतिविधातुमाह--- स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं
॥ ११ ॥ २० स्वाभाविकं सहजं सामर्थ्य च शब्दस्याऽर्थप्रतिपादनशक्तियोग्यता परपर्याया । ज्ञानस्य ज्ञेयज्ञापनशक्तिवत् । समयश्च सङ्केतस्ताभ्यामर्थबोधस्याभिधेयाक्गमस्य । निबन्धनं कारणं शब्द इति । तथा चायुक्तमुक्तं " शब्दस्य वस्तुनि न कोऽपि विचार्यमाणः सम्बन्धः " इत्यादि । तादात्म्यतदुत्पत्तिलक्षणसम्बन्धाभावेऽपि शब्दार्थयोर्योग्यता- २५
"Aho Shrut Gyanam"