________________
परि. ४ सू. ११] स्याद्वादरत्नाकरसहितः दाहजनकत्वं न जलवादिसामान्यवत इति चेत् । तदचतुरस्रम् । अतीन्द्रियशक्तिं विनाऽग्नित्वादेः कार्यकारणभावनियामकत्वानुपपत्तेः । अग्नित्वं हि दाहवद्विजातीयकारणजन्यकार्येप्वपि तुल्यरूपम् । न हि दाहं प्रत्येवाऽग्नेरग्नित्वम् । यथा पुत्रापेक्षं पितुः पितृत्वम् । मृत्यापेक्षं वा स्वामिनः स्वामित्वम् । अपि तु सर्वमेव प्रति । ततश्चाऽग्निर्दाहव- ५ त्पिपासापनोदमपि विध्यात् । नन्वसाधारणं स्वरूपं व्यवस्थानिमित्त तथाभूतं चेदमग्नित्वमग्नेरनग्निभ्यो व्यावृत्तिनिभित्तत्वादिति दृष्टेनैवाग्नित्वेन कार्यकारणभावस्योपपत्तेर्नादृष्टशक्तिकल्पनोपपत्तिमतीति चेत् । तदयुक्तम् । अनग्निव्यावर्तकतया तुल्यस्वरूपत्वाभावेऽप्यमित्वस्य प्रतिनियतकार्योत्पादकत्वव्यवस्थापकत्वानुपपत्तेः । अनग्निव्यावर्तकत्वविशि- १० ष्टस्याऽप्यग्नित्वस्य सर्वकार्याणि प्रति साधारणत्वात् । न हि कार्यान्तरेप्वमित्वस्यामेरननिभ्यो ब्यावर्तकत्वं नास्ति । येनास्य तज्जनकत्वं न स्यात् । जलादिकारणापेक्षया ह्यग्नित्वस्याऽसाधारणस्वरूपता न जलादिकार्यापेक्षयति । एवं जलस्यापि शैत्यादिजनकत्वे प्रतिनियमो न घटते । तन्नियमानिमित्तस्य जलत्वस्य दाहादावपि साधारणत्वात् । अतो १५ जलमपि दहेदनलोऽपि शैत्यं जनयेदविशेषात् । अथ दाहस्याऽग्निजन्यत्वे दाहत्वजातेर्व्यवस्थानिमित्तत्वाच्छैत्यादीनामदाहरूपतयाऽग्निजन्यत्वस्याप्राप्तिः । शैत्यादीनां च जलजन्यत्वे शीतत्वादिजातेर्व्यवस्थाहेतुत्वात्तद्विरहितत्वेन दाहस्य कथमिव जलादिजन्यत्वप्रसङ्ग इति चेत् । तदसमीचीनम् । यस्माद्दाहत्वजातेः शैत्याद्यपेक्षया तुल्यत्वाभावेऽपि जलादि- २० कारणान्तरापेक्षया तुल्यत्वान्न प्रतिनियतकार्यकारणभावव्यवस्थाहेतुत्वम्। ननु शक्तरपि कथं तद्वयवस्थाहेतुत्वम् । सा हि स्वरूपेणैव तद्धेतुः स्याच्छन्त्यन्तरेण वा । स्वरूपेण चेत् । तदाऽर्थोऽपि तथैवाऽस्तु किं शक्त्या शक्त्यन्तरेण तस्यास्तद्धेतुत्वाभ्युपगमेऽनवस्थोपनिपातः । तदसत्। पदार्थस्य स्वरूपेणैव तद्धेतुत्वे यदेव विषं पूर्व मारणसमर्थमासीत्तदेव २५ केनचिन्मन्त्रविशेषेण संस्कृतं कथमुज्जीवनहेतुः स्यात् । तदानीमपि
"Aho Shrut Gyanam'