________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. १०५ निर्णीतं तावदादौ स्मरणमथ कृता प्रत्यभिज्ञाव्यवस्था
ताख्यं मानमग्रे प्रकटितमखिलैर्दूषणैर्दूरमुक्तम् ।। अङ्गीकृत्याऽनुमानं तदनु च विहितः सुप्रतीतो विचारः
सारासारीवितैस्तदिदमिह महातार्किकैस्तकणीयम् ॥५२४॥ श्रीमुनिसुव्रतदेवः सुराधीशविहितपदसेवः ॥ निर्धूय विनपटली क्रियादीष्टार्थसिद्धिं नः ॥ ५२५ ॥ मद्यं सद्यः सुरविपटिनां सौरभोद्गारसार
पायं पायं सह सहचरैः किन्नरीणां कुलानि ।। येषामद्याप्यनुपमयशांस्यादरेणामराद्रौ
गायन्त्यस्मास्वभिमतकृतः सन्तु ते तीर्थनाथाः ॥ ५२६ ॥ सद्भुततापरिगताः स्फुटकान्तिभाजः __सन्तापतन्तिपरिमर्दनबद्धकक्षाः ।। मुक्ता इवेह हृदयं न हरन्ति कस्य
श्रीमन्मुनीन्द्रमुनिचन्द्रगुरोनिरस्ताः ॥ ५२७ ॥ __ इति कर्मप्रकृतिप्राभूताम्भोजखण्डाविर्भावनैकभास्करसमस्तसुविहितजनोत्तंसश्रीमन्मुनिचन्द्रमरिचरणतामरसोपजीविना श्रीदेवाचाघेण विरचिते स्याद्वादरत्नाकरे प्रमाणनयतत्त्वालोकालङ्कारे स्मरणप्रत्यभिज्ञानतर्वानुमानस्वरूपनिर्णयो नाम तृतीयः परिच्छेदः ॥ ३॥
'चितैः' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"