________________
परि. ३ सु. १०५ ]
स्याद्वादरत्नाकरसहितः
वा स्वतन्त्रौ कदाचन प्रत्यक्षेण समधिगम्यते । नच सामान्यमात्र विशेषमात्रं सामान्यविशेषौ वा स्वतन्त्रौ तेन निश्चीयते । नापि स्थिरैकरूपं तत्त्वं क्षणिक रूपं तदुभयं वा स्वतन्त्रं तेन प्रतीयते । तथा न विज्ञानमेव प्रत्यक्षग्राह्यम् । नाप्युपप्लवमात्रम् । तथाप्रतीतेरभावात् । प्रत्यक्षवाधितविषयत्वेनानुमानमपि सदाधेकान्तगोचरं न सम्भवतीति । तेनापि न तत्सिद्धिः । यथाऽत्र प्रत्यक्षादेरेकान्तग्राहकत्वाभावस्तथा प्रमाणविषयविवेकावसरे सविस्तरमभिधास्यते ।। १०३ ॥ विरुद्धव्यापकानुपलब्धिर्यथा, अस्त्यत्र छाया, औष्ण्यानुपलब्धेरिति ॥ १०४ ॥
विधेयया छायया विरुद्धस्तापस्तव्यापक मौण्यं तस्यानुपलब्धि - १० रियम् ॥ १०४ ॥
विरुद्धसहचरानुपलब्धिर्यथा, अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलब्धेरिति ॥ १०५ ॥
विधेयेन मिथ्याज्ञानेन विरुद्धं सम्यग्ज्ञानं तत्सहचरं सम्यग्दर्शनं तस्यानुपलब्धिरसाविति । एते च पञ्च विरुद्धानुपलब्धिभेदाः पूर्वोक्ता- १५ विरुद्धानुपलब्धिभेदादशकमध्ये यदा प्रक्षिप्यन्ते तदा जातमनुपलब्धिलक्षणहेतुचक्रं त्रयोविंशतिभेदस्वभावम् ।। १०५ ।।
ततश्च
s
हेतुरनुपलब्ध्याख्यो निषेधद्वारतः स्फुटम् ॥ निषेधविधिसंसिद्धिं विदधाति निराकुलम् ।। ५२२ ॥
साध्यज्ञप्तिपताकयाऽतिरुचिरं सद्धेतुचक्रद्वयं
पक्षव्याप्तिधुरीणयोर्युगल के नाकृष्यमाणं बलात् ॥
एनं यद्यनुमानमानसुरथं सद्वादयुद्धावना
वारोहन्ति सुवादिभूमिपतयस्तेषां जयश्रीस्तदा ।। ५२३ ॥
६९७
" Aho Shrut Gyanam"
२०