________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ३ सू. १००. विरुद्धकार्यानुपलब्धिः, विरुद्धकारणानुपलब्धिः, विरुद्धस्वभावानुपलब्धिः, विरुद्धव्यापकानुपलब्धिः, विरुद्धसहचरानुपलब्धिश्च इति विरुद्धानुपलब्धिविधिसिद्धौ पञ्चधा सिद्धा भवति ॥ १० ॥ ___ अथ क्रमेणोदाहरणान्याह-- ५ विरुद्धकार्यानुपलब्धियथा, अत्र शरीरिणि रोगातिशयः समस्ति नीरोगव्यापारानुपलब्धेरिति॥१०१॥
यथाशब्दोऽत्रोत्तरत्र च पूर्ववत् । विधेयस्य हि रोगातिशयस्य विरुद्धमारोग्यं तस्य कार्य विशिष्टो व्यापारस्तस्थानुपलब्धिरियम् ॥१.१॥ विरुद्धकारणानुपलब्धियथा विद्यतेऽत्र प्राणिनि क
ष्टभिष्टसंयोगाभावादिति ॥ १०२॥ अत्र विधेयं कष्टं तद्विरुद्धं सुखं तम्य कारणमिष्टसंयोगस्तस्यानुपलब्धिरेषः ॥ १०२॥ विरुद्धस्वभावानुपलब्धियथा वस्तुजातमनेकान्ता
त्मकमेकान्तस्वभावानुपलम्भादिति ॥ १०३॥ १५ वस्तुजातमन्तरङ्गो बहिरङ्गश्च विश्ववर्ती पदार्थसार्थः । अम्यते
गम्यत निश्चीयत इत्यन्तो धर्मः । न एकोऽनेको नेकश्वासावन्तश्चानेकान्तः स आत्मा स्वभावो यस्य वस्तुजातस्य तदनेकान्तात्मकं सदसदाद्यनेक्रधर्मात्मकमित्यर्थः । अत्र हेतुमाह-~~~एकान्तस्वभावस्य सद्
सदाद्यन्यतरधर्भावधारणस्वरूपस्यानुपलम्भादनुपलब्धेः । अत्र विधेये२, नानेकान्तात्मकत्वेन सह विरुद्धः सदायेकान्तस्वभावस्तस्य चानुपलम्भः
प्रत्यक्षादिप्रमाणेन ग्रहणाभावात्सुप्रसिद्धः । तथा हि, स्वरूपेण सन्तः पररूपेणासन्तः सामान्यविशेषात्मका नित्यानित्याद्यनेकधर्माणः पदार्थाः प्रत्यक्षेण प्रतीयन्ते । न खलु भावमात्रमभावमात्रं भावाभावी
"Aho Shrut Gyanam'