SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ परि. ३ सू. १..] स्याद्वादरत्नाकरसहितः व्यापक तत्त्वार्थश्रद्धानं तस्य कारणं दर्शनमोहोपशमादिकं तस्य चाभव्ये सुप्रतीत एवाभावः समयवेदिनाम् । सहचरव्यापककारणकारणानुपलब्धियथा-नास्त्यभव्ये सम्यग्ज्ञानं यथाप्रवृत्तौदिकरणकालभाविलब्ध्याद्यभावादिति । अत्रापि प्रतिषेध्यस्य सम्यग्ज्ञानस्य सहचरं सभ्यग्दर्शनं तव्यापकं तत्त्वश्रद्धानं तस्य कारणं दर्शनमोहोपशमादि ५ तस्यापि कारणं यथाप्रवृत्तादिकरणकालभाविलब्ध्यादिकं तस्य चाभव्य. प्राणिन्यभावः प्रकट एव । सहचव्यापककारणब्यापकानुपलब्धिर्यथानास्त्यभव्ये सम्यग्ज्ञानं दर्शनमोहोपशमादिसामान्याभावादिति । सम्यग्ज्ञानमिह प्रतिषेध्यं तत्सहचरं सम्यग्दर्शनं तब्यापकं तत्त्वार्थश्रद्धानं तत्कारणं दर्शनमोहोपशमादि तव्यापकं च दर्शनमोहोपशमादित्व- १० सामान्य तस्याऽभन्ये देहिन्यभावः सुव्यक्त एव । तदित्थं सूत्रोक्तैः सप्तभिर्मेदैः सहामी मीलिता एकादशभेदा अविरुद्धानुपलब्धेरष्टादश संवृत्ता इति ॥ ९८॥ इत्थं भेदप्रभेदपरिकरितामविरुद्धानुपलब्धिमभिधाय सम्प्रति विरुद्धानुपलब्धिमभिधातुकामस्तत्प्रकारप्रकटनार्थं तावदाहविरुद्धानुपलब्धिस्तु विधिप्रतीतो पञ्चधेति॥१९॥ अविरुद्धानुपलब्धिः पूर्वोक्ता प्रतिषेधसाधिका सप्ताष्टादशप्रकारा का । विरुद्धानुपलब्धिः पुनरियं विधिसाधिका पञ्चप्रकारा चेत्यनयोर्विशेषः ॥ ९९॥ कुतोऽस्याः पश्चप्रकारत्वमित्याहविरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भमे दादिति ॥ १०॥ विधेयेनार्थेन सह विरुद्धानां कार्यकारणस्वभावव्यापकसहचरीणी येऽनुपलम्भा अनुपलब्धयस्तैः कृत्वा मैंदी विशेषस्तस्मात् । ततश्च १ आदिशब्दादपूर्वानिवृत्तिकरणम् । "Aho Shrut Gyanam"
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy