________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ३ सु. ९८
मिष्टः ॥ १ ॥ " इत्येवं लक्षणलक्षितः, तस्य च निरन्वयैकान्ततत्त्वेऽनुपलम्भाद्भाव इति । कारण कारणानुपलब्धिर्यथा- क्वचिदात्मनि नास्ति संसारो मिथ्यात्वाद्यभावादिति । प्रतिषेध्यस्य हि संसारस्य कारणं कर्म तस्य च कारणं मिथ्यात्वाविरतिप्रमादकषाययोगास्तेषां चात्राभाव इति । ५ कारणव्यापकानुपलब्धिर्यथा - भस्मादिषु प्राणादयो न सन्ति जीवत्व - सामान्याभावादिति । अत्र हि प्रतिषेध्याः प्राणादयस्तेषां कारणं जीवस्तव्यापकं जीवत्यसामान्यं तस्य चात्राभावः । इदं चात्रोदाहरणं, सांख्यादेर्नास्ति निर्वृत्तिः सम्यग्दर्शनज्ञानचारित्राणामभावादिति । अत्र निषेध्याया निर्वृत्तेः कारणं मुक्तिमार्गस्तस्य च व्यापकं सम्यग्दर्शना१० दित्रयं तस्य चाभावः सांख्यादौ । ज्ञानमात्रादेरेव मोक्षकारणतया तेनाभ्युपगमात् । यथा च ज्ञानमात्रादेर्न मोक्षकारणत्वं तथोपरिष्टादुपपादयिप्यते । कारणव्यापकव्या पकानुपलब्धिर्यथा - सांख्यादेर्नास्ति निर्वाणं विशिष्टपरिणामाभावादिति । अत्र हि निषेध्यस्य निर्वाणस्य कारणं मुक्तिमार्गस्तद्व्यापकं सम्यग्दर्शनादित्रयं तव्यांपकश्च १५ प्रामिणतो विशिष्टः परिणामस्तस्यात्रीभावः । सांख्या दिनात्मनोऽपरिणामित्वाभ्युपगमात् । सहचर कारणानुपलब्धिर्यथा— नास्य मत्यज्ञानादिकमस्ति दर्शन मोहोदयाभावादिति । मत्यज्ञानादिकस्य हि निषे. ध्यस्य सहचरं मिथ्यादर्शनं तस्य कारणं दर्शनमोहोदयस्तस्यात्राभावः । सहचर कार्यानुपलब्धिर्यथा - मत्यज्ञानादिकं मम नास्ति नास्तिकाध्यवं२० सायाभावादिति । अत्रापि निषेध्यस्य मत्यज्ञानादेः सहचरं मिथ्यादर्शनं तस्य कार्य नास्तिकाध्यवसायः, तस्य च स्वसंवेदन सिद्धो मय्यभाव इति । सहचरव्यापकानुपलब्धिर्यथा - नास्त्यस्य सम्यग्ज्ञानं तत्त्वश्रद्धानाभावादिति । प्रतिषेध्यस्य हि सम्यग्ज्ञानस्य सहचरं सम्यग्दर्शनं तस्य व्यापकं तत्त्वश्रद्धानं तस्याऽत्राभावः । सहचरव्यापक - २५ कारणं । नुपलब्धिर्यथा नास्त्यभव्ये सम्यग्ज्ञानं दर्शनमोहोपशमाद्यभावादिति । अत्र निषेध्यस्य सम्यग्ज्ञानस्य सहचरं सम्यग्दर्शनं तस्य
६१४
" Aho Shrut Gyanam"