________________
परि ३.९८ ] स्याद्वादरत्नाकरसहितः
सहचरानुपलब्धिर्यथा नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानुपलब्धेरिति ॥ ९८ ॥
सम्यग्ज्ञानसहचरं हि तत्त्वार्थश्रद्धानस्वभावं सम्यग्दर्शनं तच प्रशमादिकार्यानुपलब्या कचित्पुंसि निवर्तमानं स्वसहचरं सम्यग्ज्ञानं निवर्त्त - यति । एवं नास्त्यत्र प्रशम तुलाया मुन्नामानुपलम्भान्न सन्ति जीवादी रूपरसगन्धाः स्पर्शानुपलब्धेरित्यादि द्रष्टव्यम् । इतीयमविरुद्धानुपलब्धिः सप्तप्रकारा प्रतिषेधप्रतिपतौ सोदाहरणा सूत्रतः प्रतिषेध्यवस्तुसम्बन्धिनां स्वभावकार्यादीनां साक्षादनुपलम्भद्वारेण प्रदर्शिता । परम्परया पुनरेषाऽपि निपुणैर्निरूप्यमाणैकादशधा सम्पद्यते । तथा कार्यव्यापकानुपलब्धिः, कार्यव्यापक व्यापकानुपलब्धिः, कारणकारणानुपलब्धिः, कारणव्याप - १० कानुपलब्धिः, कारणव्यापकव्यापकानुपलब्धिः, सहचरकारणानुपलब्धिः, सहचर कार्यानुपलब्धिः, सहचरख्यापकानुपलब्धिः, सहचरव्यापककारणानुपलब्धिः, सहचरव्यापक कारणकारणानुपलब्धिः, सहचरव्यापक कारणव्यापकानुपलब्विश्चेति, तत्र कार्यव्यापकानुपलब्धिर्यथानास्त्येकान्तनिरन्वयं तत्त्वं तत्र क्रमाक्रमाभावादिति । अत्र हि सांगता - १५ भिमतमेकान्तनिरन्वयं तत्त्वं प्रतिषेध्यं तस्य कार्यमर्थक्रियालक्षणं तद्व्यापकं क्रमाक्रमस्वरूपं तच्चान्वितैकान्ततत्त्व इव निरन्वयैकान्ततत्त्वेऽनुपलभ्यमानं स्वव्याप्यमर्थक्रियाकारित्वं निवर्त्तयति तदपि निवर्तमान कारणत्वेन कल्पितं निरव्ययैकान्ततत्त्वं प्रतिषेधति । यथा चैकान्तनिरन्वयान्वयपक्षयोरर्थक्रियाकारित्वं नोपपद्यते तथाऽग्रेऽनेकान्तप्रतिष्ठायां २० सविस्तरमभिधास्याम इति । कार्यव्यापकव्यापकानुपलब्धिर्यथा - नास्ति निरन्वयैकान्ततत्त्वं, तत्र परिणामविशेषस्याभावादिति । तत्रापि प्रतिषेध्यं निरन्ययैकान्ततत्त्वं तत्कार्यमर्थक्रियाकारित्वं तद्व्यापकं क्रमाक्रमस्वरूपं तस्य च व्यापकः परिणामविशेष: " परिणामो हार्थान्तरगमनं न च सर्वथा व्यवस्थानम् ॥ न च सर्वथा विनाशः परिणामस्तद्विदा - २५ १' तथा ' इति पं. पुस्तके पाठः ।
३९
" Aho Shrut Gyanam"
६१३