SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ६९२ १० प्रमाणनयतत्वालोका लङ्कारः [ परि. ३ सू. ९३ पनसत्वं हि पादपत्वेन व्याप्तं तदभावे तयाप्यस्य पनसत्वस्याप्यभावः । एवं नास्त्यत्र शिशपा वृक्षाभावादित्यादीन्यप्यवसेयानि ॥९३॥ कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्तिकं बीजकुरावलोकनादिति ॥ ९४ ॥ अप्रतिहतशक्तिकत्वं हि कार्यं प्रत्यप्रतिबद्धसामर्थ्यत्वं कथ्यते । एतच्च विशेषणं बीजमात्रेण व्यभिचारपरिहारार्थम् । अङ्कुरानुपलम्भेऽपि बीजमात्रसद्भावस्याविरोधादिति । एवं नास्त्यत्र परासुशरीरे चैतन्यं वाक्क्रियाकारभेदानामनुपलम्भादित्यादीन्युदाहरणान्यूझानि ॥ ९४ ॥ कारणानुपलब्धिर्यथा न सन्त्यस्य प्रशमप्रभृतयो भावास्तत्त्वार्थ श्रद्धानाभावादिति ॥ ९५ ॥ प्रशमप्रभृतयो भावा इति, प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षण जीवपरिणामविशेषाः | तत्त्वार्थश्रद्धानाभावादिति, तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तस्याभावात् । अत्र तत्त्वार्थश्रद्धानलक्षणस्य कार्यस्याभाव: कुतोऽपि देवद्रव्यभक्षणादेः पापकर्मणः सकाशात्सिद्धयत्सत्तत्त्वार्थ१५ श्रद्धानकार्यभूतानां प्रशमादीनामभावमवगमयति । एवं नास्त्यत्र धूमो धूमध्वजाभावादित्यादीन्यपि लोकप्रसिद्धान्युदाहरणान्यवसेयानि ॥९५॥ पूर्वचरानुपलब्धिर्यथा नो गमिष्यति मुहूर्तान्ते स्वातिनक्षत्रं चित्रोदयादर्शनादिति ॥ ९६ ॥ व्यक्तमदः । एवं न भविष्यति मुहूर्त्तान्ते शकटं कृत्तिको दयानुप२० लब्धेरित्यादीनि ॥ ९६ ॥ उत्तरचरानुपलब्धिर्यथा नोदगमत्पूर्व भद्रपदा मुहूर्तात्पूर्वमुत्तर भद्रपदोद्गमानवगमादिति ॥ ९७ ॥ स्पष्टमेतदपि । एवं नोदगाद्भरणिर्मुहुर्तात्प्राक्कृत्तिको दयानुपलब्धेरित्यादन्यवगन्तव्यानि ॥ ९७ ॥ "Aho Shrut Gyanam"
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy