________________
परि.३ सू. ९३] स्याद्वादरत्नाकरसहितः प्रदेशादावुपलभ्यमाने निश्चीयते घटप्रदेशयोरुपलम्भकारणान्यविशिष्टानीति कृत्वा । यश्च तद्देशाधेयतया कल्पितो घटः स एव तेनैकज्ञानसंसर्मी न देशान्तरस्थः । एकेन्द्रियग्राह्यं हि लोचनादिप्रणिधानाभिमुखवस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसर्गि कथ्यते । तयोहि सतो - कनियताभावप्रतिपत्तिः । योग्यताया द्वयोरप्यविशिष्टत्वात् । ततश्चैक- ५ ज्ञानसंसर्गिणि प्रदेशादावुपलभ्यमानेऽप्यनुपलम्भात् । तदयुक्तम् । यतः प्रदेशादिनैकज्ञानसंसर्गिण एव घटस्याभावः साध्यते स्वभावानुपलम्भानान्यस्य । यस्तु पिशाचादिना प्रतिबन्धबलतोऽन्यत्वमापादितः कुम्भः स नैव निषिध्यते । इह. चैकज्ञानसंसर्गी भासमानोऽर्थस्तज्ज्ञानं च पर्युदासवृत्त्या घटस्यासत्तानुपलब्धिश्चोंच्यते । ननु चै केवलभूतलस्य १० पत्यक्षत्वात्तद्रूपः कुम्भाभावोऽपि प्रत्यक्षसिद्ध एवेति किं स्वभावानुपलब्ध्या साध्यम् । सत्यमेवैतत् । तथापि यः सर्वं सर्वत्र विद्यत इति कुमतवासितान्तःकरणः कापिलादिः प्रत्यक्षप्रतिपन्नेऽपि कुम्भाधभावे भ्राम्यति । सोऽनुपलम्भ निमित्तीकृत्य प्रतिपाद्यते । अनुपलम्भनिमित्तौ हि सत्त्वरजस्तमःप्रभृतिषु परस्परमसद्व्यवहारस्त्वयाऽपि प्रतिपन्नः । १५ अन्यथा तेषां साकर्यापत्तेः । स चानुपलम्भोऽत्राप्यस्तीति निमित्तप्रदर्शनेनाभाकव्यवहारः प्रसाध्यते । दृश्यते हि गरीयसि गवि सानादि- . मत्त्वात्प्रवर्तितगोव्यवहारो मूढमतिर्लघीयसि गवि तंत्सादृश्यं पश्यबपि न गोव्यवहारं प्रवर्तयति । लघीयसि वा गवि प्रवर्तितो गोव्यत्रहारो न गरीयसीति । स निमित्तप्रदर्शनेन गोव्यवहारे प्रवर्त्यते । १० -सानादिमन्मात्रनिमित्तको हि गोव्यवहारस्त्वया प्रवर्तितः पूर्वं न लघीयस्यादिनिमित्तक इति । तथा महत्यां शिंशपायां प्रवर्तितवृक्षव्यवहारो .... मूढमतिः स्वल्पायां तस्यां तब्यवहारमप्रवर्तयन् शिंशपात्वलक्षणतन्निमितोपदर्शनेन तत्र प्रवर्त्यते । वृक्षोऽयं शिंशपात्वादिति ॥ ९२ ॥ व्यापकानुपलब्धिर्यथा नास्त्यत्र प्रदेशे पनसः पाद- २५
पानुपलब्धेरिति ॥ ९३॥
"Aho Shrut Gyanam"